हिमपातस्य कारणेन हिमाचलस्य चत्वारः राष्ट्रियराजमार्गाः, २३२ मार्गाः पिधिता, १८०० विद्युत्परावर्तका: च स्थगिताः वो
हिमसंस्कृतवार्ता- शिमला।
हिमाचलप्रदेशस्य उच्चपर्वतक्षेत्रेषु त्रिदिवसेभ्य: सतत् हिमपातः भवति। राज्ये प्रचण्डहिमपातस्य कारणेन चत्वारः राष्ट्रियराजमार्गाः, २२८ मार्गाः च यातायातस्य कृते निरुद्धा: सन्ति। लाहौल- स्पीति- जनपदे १६५ मार्गाः स्थगिताः अभवन्। चम्बाजनपदस्य ५२ मार्गेषु यातायातस्य प्रभावः अस्ति । तथैव १८०० विद्युत्परिवर्तकानां विफलतायाः कारणेन राज्ये अनेकेषु क्षेत्रेषु अन्धकारः अस्ति। कुल्लुमण्डले, लाहौल-स्पीतौ च त्रिदिवसेभ्य: हिमपातः निरन्तरं वर्तते। प्रचण्डहिमपातस्य कारणेन लाहौल-उपत्यका देशात् विश्वात् च विच्छिन्ना अस्ति।
रोहताङ्गदर्रायां पञ्चपादपर्यन्तं हिमपातः अभवत्। यत्र कोकसरे ७० सेंटीमीटर, अटलकन्दराया: उत्तरद्वारे ६० से.मी., सिस्सु इत्यत्र ६० से.मी., गोन्धला-तान्दौ च ६० से.मी., दार्चायां ४५ से.मी., अटलकन्दराया: दक्षिण-द्वारे १०० से.मी जलोडीदर्रायां च २० से.मी. हिमपात: अभवत्। तस्मिन् एव काले रविवासरात् आरभ्य मण्डलस्य कुल्लू-लाहौलस्य चन्द्राघाट्यां विद्युत्-विफलता वर्तते। प्रचण्डहिमपातस्य कारणात् उभयो: जनपदयोः त्रयाणां राजमार्गैः सह १५० तः अधिकेषु मार्गेषु यातायातस्य स्थगनम् अभवत्। लाहौल-स्पीति-जिलाप्रशासनेन हिमस्खलनस्य सम्भावना प्रकटिता अस्ति। किन्नौरमण्डलस्य उच्चप्रदेशेषु अपि नवीनहिमपातः अभवत्। राज्यराजधानी शिमलानगरे गतरात्रौ प्रचण्डवृष्टिः अभवत्। अस्मिन् काले वायुवेग: अपि अभवत्।
पुलिसस्य मते धुंधीक्षेत्रे प्रचण्डहिमपातस्य कारणेन मार्गे प्रायः ४.५ पादपर्यन्तं हिमपातः सञ्चितः अस्ति तथा च मार्गस्य स्थितिः कस्यापि प्रकारस्य वाहनस्य गमनाय उपयुक्ता नास्ति। अतः पर्यटकानाम्, स्थानीयजनानाञ्च सुरक्षां मनसि कृत्वा नेहरूकुण्डतः सोलङ्ग-अवरोधं प्रति सामान्यवाहनानां गमनं पिहितम् अस्ति। यावत् मार्गस्य स्थितिः न भवति तावत् केवलं 4×4 वाहनानि एव सोलङ्ग-अवरोधं प्राप्तुं शक्नुवन्ति।