अमृतभारतम् रेलयानानि पञ्चाशत् मितानि अधिकानि प्रचालयितुं सर्वकारस्य अनुमोदनम्
अमृतभारतम् इत्याख्यानि रेलयानानि इतोऽपि पञ्चाशत् मितानि अधिकानि प्रचालयितुं सर्वकारेण अनुमोदितानि सन्ति। रेलमन्त्री अश्विनी-वैष्णवः उक्तवान् यत् अमृतभारत- रेलयानस्य संचालनस्य सफलतायाः अनन्तरम् अन्येषां पञ्चाशत् रेलयानानाम् अनुमोदनम् अपि प्राप्तम् अस्ति। अमृतभारत- रेलयानम् उभयगामि रेलयानं वर्तते, यच्च अग्रतः पृष्ठतः कुत्रापि गन्तुं शक्नोति। अस्य रेलयानस्य शायिकाः वातानुकूलन- रहिताः वर्तन्ते। एतद् रेलयानं यात्रिभ्यः गमनागमनार्थम् उत्तम-सौविध्यं प्रददाति।
अमृतभारतम् रेलयानानि पञ्चाशत् मितानि अधिकानि प्रचालयितुं सर्वकारस्य अनुमोदनम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment