अन्तार्राष्ट्रीय-मातृभाषा-दिवस: ।
अन्तार्राष्ट्रीय-मातृभाषा-दिवसः प्रतिवर्षं विश्वव्यापीरूपेण २१ फरवरी दिनाङ्के आचर्यते। अस्य दिवसस्य उद्देश्यं भाषायाः विविधतायाः विषये ज्ञानकरणं वर्त्तते। अयं दिवसः सम्पूर्णे विश्वे भाषायाः सांस्कृतिकवैविध्यस्य च जागरूकतां प्रवर्धयति। अवधेयं वर्त्तते यत् १९९९ तमे वर्षे नवम्बरमासस्य १७ दिनाङ्के यूनेस्को-संस्थया अस्य दिवसस्य आयोजनस्य घोषणा कृता। भाषा सर्वविधसञ्चारार्थं मौलिकः इति वयं उपेक्षितुं न शक्नुमः तथा च मानवसमाजस्य परिवर्तनं विकासं च कर्तुं भाषासंचारस्य महत्त्वपूर्णा भूमिका भवति। अन्तार्राष्ट्रीय- मातृभाषा- दिवसस्य निर्माणं तदा अभवत् यदा भाषावैविध्यस्य अधिकाधिकं त्रासः आसीत्। अत: भाषाया: प्रसाराय, प्रचाराय, विकासाय च अयं दिवस: स्वीकृत:।