आयव्ययकेन वर्धते हिमाचलस्य विकासः , राज्यस्तरीय- छेस्चुमेलापकस्य उद्घाटने उक्तवान् राजस्वमन्त्री जगतप्रकाशनेगी
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
राज्यसर्वकारः हिमाचलं फलराज्यं कर्तुं निश्चितः अस्ति। १३०० कोटिरूप्यकाणां शिवापरियोजना आरब्धा अस्ति, यस्मिन् षट्सहस्रहेक्टेयर भूमौ फलवृक्षाः रोपिताः भविष्यन्ति। १५००० उद्यानपालका: अस्य लाभं प्राप्स्यन्ति। मण्डीमण्डलम् अपि अस्मिन् अन्तर्भवति। राजस्वमन्त्री जगतसिंह नेगी इत्यनेन रिवालसरे त्रिदिवसीयस्य राज्यस्तरीयस्य छेस्चुमेलापकस्य उद्घाटनसमये एतदुक्तम्। सः अवदत् यत् कतिपयेषु मासेषु राजस्वन्यायालयद्वारा ९६,००० इन्तकालप्रकरणानां ६,००० तकसीमप्रकरणानाम् निराकरणं जातम्।
एते प्रकरणाः दीर्घकालं यावत् लम्बिताः आसन्। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः इत्यनेन प्रस्तुतं बजटं राज्यं आत्मनिर्भरतां प्रति नेष्यति इति उक्तवान्। सर्वकारेण जनप्रतिनिधिनां मानदेयस्य महती वृद्धिः कृता। मनरेगा इत्यस्य दैनिकवेतनं ३०० रूप्यकाणि यावत् वर्धितम् अस्ति। क्षीरस्य मूल्यानि वर्धितानि सन्ति। एपीएमसी अध्यक्षः संजीव गुलेरिया इत्यनेन मेलापकस्य उद्घाटनार्थं राजस्वमन्त्री जगतसिंह नेगी इत्यस्य धन्यवादः कृतः। एतत् बजटं हिमाचलस्य विकासाय निश्चितरूपेण नूतनां गतिं दास्यति।