कुल्लू-लाहौल-उपत्यकायाः उच्चक्षेत्रै: सहितं मनालीनगरे प्रचण्डहिमपातः, अटल-कन्दरा रोहताङ्ग निरुद्धा
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशे रक्तसचेतनाया: मध्ये उच्चपर्वतक्षेत्रेषु प्रचण्डहिमपातः अभवत्। अटलकन्दरायां रोहताङ्गे जलोड़ीदर्रा इत्यत्र च हिमपातेन यातायातस्य गतिः स्थगिता अस्ति। लाहौल-स्पीतौ मंगलवासरस्य बुधवासरस्य च कृते शैक्षणिकसंस्थानि पिहितानि सन्ति। राजधान्या: शिमलाया:, धर्मशालाया: च सहितं राज्यस्य अधिकांशेषु निम्नक्षेत्रेषु सोमवासरे अपराह्ने प्रतिघण्टां ४० तः ५० किलोमीटरगत्या वायुवेग: अभवत्। मनालीनगरे वर्षा अभवत्। नेहरूकुण्डे हिमपातकारणात् यातायातस्य सम्मर्द: आसीत्। काङ्गड़ामण्डले धौलाधारपर्वतेषु अपि हिमपातः अभवत्। चम्बा, कुल्लू, शिमलामण्डलेषु अपि अनेकेषु स्थानेषु वर्षा अभवत्। सेबस्य कृते हिमपातः गोधूमस्य कृते वर्षा च साधु मन्यते। अधुना रक्तांकस्य, शिमलामरीचिकाया: च वपनस्य समयः अस्ति। पाङ्गी आदिवासीक्षेत्रस्य ४२ मार्गै: साकं मण्डले आहत्य ४४ मार्गेषु हिमपातेन वर्षाणा च कारणेन वाहनानां चक्राणि निरुद्धानि सन्ति। तस्मिन् एव काले मण्डलस्य ३०० ग्रामेषु विद्युत् विफलता वर्तते।
अटलकन्दराया: दक्षिणद्वारे प्रायः ३० सेंटीमीटर पर्यन्तं हिमपातस्य कारणेन गमनागमनं निरुद्धम् अस्ति। आनी-कुल्लू राजमार्गः-३०५ जालोरी-दर्रा इत्यत्र अवरुद्ध: अस्ति। उपायुक्तः लाहौल-स्पीति राहुल कुमारः प्रचण्डहिमपातस्य सचेतनाम् अवलोक्य उपमण्डलस्य केलाङ्गस्य उदयपुरस्य च सर्वाणि शैक्षणिकसंस्थानि २०, २१ फरवरी दिनाङ्केषु पिहितं स्थापयितुं निर्णयं कृतवान्। हिमपातस्य कारणेन अनेकेषु क्षेत्रेषु हिमशैलानां स्खलनस्य संकट: वर्तते । एतावता लाहौल उपत्यकायां ३० तः ६० सेंटीमीटरपर्यन्तं हिमपातः अभवत्। सीमामार्गसङ्गठनस्य मेजर रविशङ्करः अवदत् यत् स्तीङ्गरीतः तान्दीशून्यबिन्दुपर्यन्तं मार्गः पुनः स्थापितः।
मनालीनगरस्य नेहरूकुण्डे हिमपातकारणात् सम्मर्द:
मनालीनगरे हिमपातस्य मध्यं यातायातस्य सम्मर्दस्य कारणेन पर्यटकानां समस्याः वर्धिताः। पर्यटकसङ्ग्रहात् नेहरूकुण्डे, पलचाने, सोलङ्गनालायां च सम्मर्द: अभवत्। अस्य कारणात् पुलिसस्य समस्याः अपि वर्धिताः। अतिरिक्तसैनिकानाम् नियुक्तेः अनन्तरं यातायातस्य सम्मर्दस्य कारणेन जनानां मध्ये आक्रोशः वर्तते। सम्मर्दस्य कारणेन स्थानीयजनाः अपि व्याकुलाः सन्ति। अस्य ऋतो: द्वितीयः हिमपातः पर्यटनस्थले मनालीनगरे अभवत्। यतः हिमपातः आरब्धः तदा पर्यटकानां पर्यटनव्यापारिणां च मुखम् उज्ज्वलं जातम्।