विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम्
हिमसंस्कृतवार्ता:- शिमला।
विश्वधरोहरे कालका-शिमला-रेलमार्गे शीघ्रमेव हाइड्रोजन-रेलयानं प्रचलिष्यति। एतद् हाइड्रोजनरेलयानं देशे प्रथमं रेलयानं भविष्यति यत् संकीर्णमार्गेण चालितं भविष्यति। रेलमण्डलेन कालका-शिमला-संकीर्णमार्गरेखायां हाइड्रोजनरेलयानस्य संचालनार्थं परीक्षणम् आरब्धम्। केन्द्रसर्वकारेण उत्तररेलमार्गस्य धरोहरसंरचनायाः उपरि हाइड्रोजनरेलयानानि २०२४-२५ तमस्य वर्षस्य बजटे समाविष्टानि सन्ति।
कालका-शिमला-रेलखण्डे हाइड्रोजन-रेलयानानि चालयितुं कालका-शिमला-बड़ोग-स्थानकेषु हाइड्रोजन-इन्धनस्थानकानि स्थापितानि भविष्यन्ति। एतेषु त्रिषु स्थानकेषु जलात् हाइड्रोजनं निष्कास्य इन्धनरूपेण परिणन्तुं संयंत्राणि स्थापितानि भविष्यन्ति। अस्य कृते कालका- शिमला- रेलखण्डस्य सर्वेक्षणमपि कृतम् अस्ति। सम्प्रति अस्मिन् रेलखण्डे केवलं डीजल-इञ्जिनेषु एव रेलयानानि प्रचलन्ति।
हाइड्रोजन प्रदूषणरहितं स्वच्छं ईन्धनं मन्यते। हाइड्रोजन- ईन्धनस्य उपयोगेन हानिकारकवायुनाम् उत्सर्जनं शून्यं भवति तथा च केवलं जलवाष्पं मुक्तं भवति, यत् हरित-आच्छादने स्वच्छं पर्यावरण- अनुकूलं च मन्यते रेलमार्गस्य उद्देश्यं डीजल- सञ्चालित- इञ्जनं हाइड्रोजन-इञ्जिनेषु परिवर्तयित्वा हरित-ईन्धन-आधारित-रेलयानानि प्रदातुं वर्तते। वन्देभारत-एक्स्प्रेस- रेलयानानि इव रेलसेट रूपेण हाइड्रोजन-सञ्चालितानि रेलयानानि प्रवर्तयितुं योजना अस्ति।
उत्तररेलवे इत्यस्य अम्बालामण्डलस्य डीआरएम मन्दीपसिंह: भाटिया अवदत् यत् एतद् हाइड्रोजनरेलयानं देशे प्रथमं रेलयानं भविष्यति यद् संकीर्णमार्गरेखायां चालितं भविष्यति। कालका- शिमला- रेलमार्गे रेलयानसञ्चालनार्थं त्रीणि हाइड्रोजन-गैस-स्थानकानि स्थापितानि भविष्यन्ति। अस्य कार्यस्य प्रारम्भिकं चरणं प्रचलति।