चिन्तपूर्णीवत राज्यस्य शक्तिपीठेषु भविष्यति सुगमदर्शनम्, जलमग्नमन्दिराणां पुनर्स्थापनार्थं विस्तृतपरियोजना- प्रतिवेदनं सज्जीक्रियते- डॉ. पंकज ललित:
हिमसंस्कृतवार्ता- बिलासपुरम्।
ऊनाजनपदस्य प्रसिद्धशक्तिपीठस्य माताचिंतपूर्णीमन्दिरे यथा सुगमदर्शनस्य सुविधा वर्तते तथैव राज्यस्य शक्तिपीठेषु सुगमदर्शनस्य सुविधा भविष्यति। एतदर्थं कार्यं प्रचलति। गतदिवसे बिलासपुरं प्राप्तेन भाषासंस्कृतिविभागस्यनिदेशकेन पंकजललितेन एतत् प्रकटितम्। सः अवदत् यत् देशात् राज्यात् च आगच्छन्तानाम् भक्तानां सुविधायै चिन्तपूर्णीमन्दिरे सुलभदर्शनसुविधा आरब्धा अस्ति। इयं सुविधा वरिष्ठनागरिकाणां दिव्याङ्गानां च कृते चालिता। विगतषड्- सप्तमासेभ्यः एषा योजना अत्यन्तं सफला सिद्धा अस्ति ।
मन्दिरस्य आयम् अपि वर्धितम् अस्ति। मन्दिरन्यासेन १ कोटि ६० लक्षरूप्यकाणां आयमपि प्राप्तम् अस्ति। चिन्तपूर्णीमन्दिरे लंगरप्रसादयोः ऑनलाइन-आरक्षणस्य सुविधा आरब्धा अस्ति। अन्येषु शक्तिपीठेषु अपि एताः सुविधाः आरब्धुं सर्वकारः सज्जः अस्ति। राज्ये ३६ मन्दिराणि सन्ति, ये न्यासरूपेण सर्वकारस्य अधीनानि सन्ति। सम्प्रति एतेषु मन्दिरेषु २५ लक्षरूप्यकाधिकं बजटस्य या अपि योजना भवति तदर्थं भाषा संस्कृतिविभागेन अनुमोदनं कर्तव्यं भवति।
बिलासपुरे जलमग्नमन्दिराणां पुनर्स्थापनार्थं विस्तृतपरियोजना-प्रतिवेदनं सज्जीक्रियते
भाषा संस्कृतिविभागस्य निदेशकः पंकजललितः अवदत् यत् गोविन्दसागरसरोवरे जलसमाधिग्रहणस्य बिलासपुरस्य पौराणिकमन्दिराणां विषये राज्यसर्वकारेण भारतसर्वकाराय प्रस्तावः प्रेषितः। अद्यापि तस्य अनुमोदनं न आगतम्। जलमग्नानां मन्दिराणां जीर्णोद्धारार्थं आईआरडीसी द्वारा एल-एण्ड-टी कम्पनीमाध्यमेन विस्तृतपरियोजना-प्रतिवेदनं सज्जीक्रियते।