लघ्वीकाश्यां मण्ड्यां सप्तसंकल्पान् स्वीकृत्य सेवारतानां संस्कृतशिक्षकाणां पञ्चदिवसीया प्रशिक्षणकार्यशाला सम्पन्ना
हिमसंस्कृतवार्ता- मण्डी।
प्रदेशे शिक्षाक्षेत्रे गुणवत्ताम् आनेतुं सर्वकारेण नैका: प्रयासा: क्रियन्ते। विविधजनपदेषु शिक्षकाणां प्रशिक्षणकार्यशालानाञ्च आयोजनं भवति। तत्रैव लघ्वीकाश्यां मण्ड्यां जिलाशिक्षकप्रशिक्षणसंस्थानस्य सायुज्ये एकस्मिन् चक्रे प्रायश: ९०० शिक्षकाणां चतुर्षु स्थानेषु प्रशिक्षणम् सम्पन्नम्। तेषु एव खण्डस्रोतसमन्वयकस्य केन्द्रस्य सभागारे खलियारे कक्षा षष्ठीत: अष्टमीपर्यन्तं संस्कृतशिक्षकाणां प्रशिक्षणकार्यशालाया: आयोजनम् अभवत्। अस्यां कार्यशालायां मण्डीजनपदस्य भिन्न-भिन्नशिक्षाखण्डानां षष्ट्याधिकसंस्कृतशिक्षका प्रशिक्षणं गृहीतवन्तः। अस्मिन् अवसरे जिलाशिक्षकप्रशिक्षणप्रभारी विजयशर्मा शिक्षकान् सम्बोधयन् उक्तवान् यत् विश्वस्य प्राचीनतमा भाषा संस्कृतं वर्त्तते। जीवनस्य सर्वेषां संस्काराणां सम्पादनम् अनया भाषया एव भवति। संस्कृतं विना संस्कृति: न आयाति। अत: अस्माकं सौभाग्यं वर्त्तते यत् संस्कृतशिक्षका: अत्र संस्कृतमाध्यमेन प्रशिक्षणं प्राप्य नवीनया ऊर्जया विद्यालयेषु संस्कृतमयं वातावरणं निर्मास्यन्ति। अस्य प्रशिक्षणस्य समन्वयक: रजनीशचौधरी उक्तवान् यत् अस्या: कार्यशालाया: आरम्भ: १३ फरवरीत: १७ फरवरीपर्यन्तम् अभवत्।
कार्यशालायामस्यां मण्डीजनपदस्य षष्ट्याधिकसंस्कृतशिक्षका: प्रशिक्षणं प्राप्तवन्त:। संस्कृतमाध्यमेन शिक्षकाणां प्रशिक्षणं दृष्ट्वा अहमपि मुदितोऽस्मि इति स: अकथयत्। पञ्चदिवसीयकार्यशालायां शिक्षकै: शिक्षणाधिगमस्य प्रविधिनां विषये, राष्ट्रियोप्लब्धिसर्वेक्षणे भाषाया: स्तरविषये,, भाषिकतत्त्वानां विषये, मूल्याङ्कनस्य विषये, नवशिक्षानीति: २०२० इत्यस्या: विषये, सामाजिकमाध्यमै: संस्कृतम्, भाषाशिक्षणस्य साधनानां विषये च प्रशिक्षणं प्राप्तम्। कार्यशालाया: प्रशिक्षकेण डॉ मनोजकुमारशैलेन विद्यालयेषु संस्कृतमयं वातावरणं निर्मातुं सप्तसंकल्पा: उपस्थापिता:। कार्यशालाया: समाप्तौ सर्वे शिक्षका: तान् सप्तसंकल्पान् स्वीकृत्य प्रतिगतवन्त:।
सप्तसंकल्पा:
- विद्यालये दिनद्वये संस्कृतप्रार्थनासभाया: आयोजनम्।
- विद्यालये नित्योपयोगिवस्तूनां संस्कृतेन नामानां लेखनम्।
- मासान्ते संस्कृते कार्यक्रमस्य आयोजनम्।
- प्रतिवर्षं संस्कृतसप्ताहस्य आचरणम्।
- वार्षिकोत्सवे संस्कृतमाध्यमेन अपि कार्यक्रमा:।
- संस्कृतस्य संस्कृतमाध्यमेन पाठनं तदर्थम् आरम्भे परीक्षायां एकस्य पद्यस्य सरलसंस्कृतव्याख्या।
- संस्कृत-प्रतियोगितासु छात्राणां सहभागिता।
अस्यां कार्यशालायां प्रशिक्षकरूपेण डॉ मनोहरलाल:, डॉ सेवकराम:, डॉ मनोजकुमारशैल:, आचार्यनरेन्द्र: आचार्यहंसराज: च उपस्थिता: अभवन्।