HP Vidhan Sabha Budget Session: हिमाचले २० सहस्रपदानि पूरयितुं अस्मिन् मासे विज्ञापनं निर्गतं भविष्यति – मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः
हिमसंस्कृतवार्ता- शिमला।
शुक्रवासरे विधानसभायाः बजटसत्रस्य तृतीयदिने प्रश्नहोरायां मुख्यमन्त्री प्रतिवर्षं एकलक्षं कार्याणि प्रदातुं चर्चां कृतवान् इति अवदत्। जीविका केवलं सर्वकारीयं कार्यं न भवति।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् अस्मिन् मासे हिमाचलप्रदेशे विविधवर्गस्य २० सहस्रपदानि पूरयितुं विज्ञापनानि निर्गमिष्यन्ति। सर्वकारेण २५०० नियुक्तयः कृताः। एतेषां नियुक्तीनां नियुक्तिपत्राणि एप्रिलमासे दास्यन्ते। शुक्रवासरे विधानसभायाः बजटसत्रस्य तृतीयदिने प्रश्नहोरायां मुख्यमन्त्री प्रतिवर्षं एकलक्षं कार्याणि प्रदातुं चर्चां कृतवान् इति अवदत्। जीविका केवलं सर्वकारीयं कार्यं न भवति। स्वजीविकाया: अवसरान् प्रदातुं अपि अस्मिन् अन्तर्भवति। नूतननियुक्ति-आयोगस्य कृते सशक्तं आधारभूतसंरचनं निर्मातुं समयः अपेक्षते इति मुख्यमन्त्री अवदत्। शीघ्रमेव राज्ये सङ्गणकाधारितपरीक्षाः भविष्यन्ति। लोकसेवा-आयोगः अपि चयनं कुर्वन् अस्ति। नूतनायोगस्य आरम्भमात्रेण लोकसेवा-आयोगात् चयनप्रक्रियाः हमीरपुर-आयोगे स्थानान्तरिताः भविष्यन्ति। भाजपाविधायक: राकेशजमवाल: प्रश्नकाले साननसमिते: अनुशंसा: एवं चयनप्रक्रियाया: प्रारम्भस्य विषय: उत्थापित:। तस्य प्रतिक्रियारूपेण मुख्यमन्त्री उक्तवान् यत् एषः विषयः सहस्राणां युवानां भविष्येन सह सम्बद्धः अस्ति।