हिमाचल संस्कृत अकादमी : हिमाचल-संस्कृत-अकादम्या हमीरपुरस्य चकमोह- संस्कृत- महाविद्यालये मानितः “सुरम्य: वसंतोत्सव:”
सरस्वतीपूजन- यज्ञानुष्ठान- कवि-सङ्गोष्ठी- व्याख्यान- शोधात्मक-उद्बोधनैः सह सांस्कृतिक- कार्यक्रमोऽपि सञ्जातः।
बसन्तपञ्चमी अथवा श्रीपञ्चमी एकः प्रसिद्धः हिन्दूपर्वः वर्तते। अस्मिन् दिने देवी सरस्वती, कामदेव:, विष्णु: च पूज्यते। एषा पूजा विशेषतया भारते, बाङ्गलादेशे, नेपाले, अन्येषु च अनेकेषु राष्ट्रेषु महता उत्साहेन आचर्यते। अस्मिन् दिने जनाः पीतानि वस्त्राणि धारयन्ति। शास्त्रेषु बसन्तपञ्चमी एव ऋषिपञ्चमी इति नाम्ना उल्लिखिता अस्ति, तथैव पुराणेषु, शास्त्रेषु, अनेकेषु काव्यग्रन्थेषु च तस्य चित्रणं भिन्नरूपेण कृतम् अस्ति। होलीपर्व बसन्तपञ्चमीतः ४० दिवसाभ्यन्तरे आचर्यते, अतः बसन्तपञ्चमी होलीपर्वण: आरम्भः इति मन्यते। बसन्तपञ्चमीदिने सरस्वतीदेव्याः जन्म अभवत् इति विश्वासः अस्ति। अस्मिन् एव दिने सा पुस्तकं वीणां मालां च धृत्वा श्वेतपङ्कजे उपविष्टा प्रादुर्भूतवती। अपि च बसन्तपञ्चमीतः एव वसन्तऋतुः आरभ्यते। अस्मिन् दिवसे भारतसहितं सम्पूर्ण विश्वे पूजा अर्चना च आचर्यते।
अनेन क्रमेणैव हिमाचल-संस्कृत-अकादम्याऽपि हमीरपुर- जनपदस्य श्री- विश्वनाथ- संस्कृत- महाविद्यालय- चकमोहे पूर्णोत्साहेन, श्रद्धामय-भावेन च बसन्तपञ्चमी पर्व आचर्यते। अवसरेऽस्मिन् महाविद्यालयस्य परिसरे आगन्तुकैः सह छात्र-छात्राभिः मिलित्वा सरस्वतीपूजनं यज्ञानुष्ठानं च आचरितम्। अनन्तरं कार्यक्रमस्य प्रारम्भो जातः। अस्य कार्यक्रमस्य संयोजनम् पूर्व-प्राचार्येण डॉ. धनीराम- संगर- महोदयेन कृतमासीत्। मञ्च-सञ्चालकेन मनोज-गौतमेन कार्यक्रमस्य शुभारंभ: कृतः। तत्र आदौ महाविद्यालयस्य छात्रैः वैदिक- मङ्गलाचरणम्, सरस्वती वन्दना च कृता। अवसरेऽस्मिन् डॉ. एल.आर.शर्मा अध्यक्षरूपेण तथा च गुरु- नानकदेव- विश्वविद्यालयस्य पूर्व विभागाध्यक्षः डॉ. लेखराम- शर्मा मुख्यातिथिरूपेण उपस्थिताः आस्ताम्। हिमाचल-संस्कृत-अकादम्या: सचिववर्येण डॉ. केशवानंद-कौशलेन सर्वेषां आगन्तुकानां सहितं अध्यक्षस्य, मुख्यातिथेः, छात्राणां च स्वागतं विहितम्। चकमोह- महाविद्यालयस्य प्रधानाचार्यस्य नरेश- कुमार- ठाकुरस्य च विष
विशेषाभिनन्दनम् विहितम्। अनन्तरं कवि-सङ्गोष्ठी- व्याख्यान- शोधात्मक-उद्बोधनैः सह सांस्कृतिक- कार्यक्रमस्य प्रारम्भः सञ्जातः। स्थानीय- छात्रैः अद्भुतानां सांस्कृतिक- कार्यक्रमाणां मञ्चनं कृतम्। आगन्तुकै: विद्वद्भिः काव्यपाठं, व्याख्यानं शोधात्मक-उद्बोधनं च प्रस्तुतम्। अत्र सम्पूर्णहिमाचलात् विद्वांसः आगतवन्तः आसन्। तत्र प्रामुख्येन डॉ. नरेश- शर्मा, डॉ. महेंद्र- गोपाल- शर्मा, डॉ. श्याम- लाल- शर्मा, डॉ. जगदीश:, आचार्य: भगतराम: डॉ. सन्नी कुमार:, डॉ. राकेश- शर्मा डॉ. रमेश- संख्यान:, आचार्य: बलबीर:, डॉ. पंकज- कुमार:, डॉ मुकेश- कुमार:, डॉ. दीप- कुमार:, डॉ विद्यासागर:, आचार्य: नरेश- मलोटिया, आचार्य: रजनीश-कुमार: डॉ विपिन- कुमार: च उपस्थिताः आसन्।