सिरमौर-जिलाप्रशिक्षणसंस्थाने आयोजितं पञ्चदिवसीयं सेवारतानां संस्कृतशिक्षकाणां प्रशिक्षणकार्यशालाया: समापनम् ।
(हिमसंस्कृतवार्ता- डॉ नरेन्द्रराणा सिरमौर: )
प्रदेशे शिक्षाक्षेत्रे गुणवत्ताम् आनेतुं सर्वकारेण नैका: प्रयासा: क्रियन्ते। विविधजनपदेषु शिक्षकाणां प्रशिक्षणकार्यशालानाञ्च क्रियते। तत्रैव सिरमौरजनपदस्य जिलाप्रशिक्षणसंस्थाने नाहनम्–इत्यत्र संस्कृतशिक्षकाणां प्रशिक्षणकार्यशालाया: आयोजनम् अभवत् । अस्मिन् अवसरे जिलापरियोजनाधिकारी हिंमाशुमहोदय: शिक्षकान् सम्बोधयन् उक्तं यत् विश्वस्य प्राचीनतमा भाषा संस्कृतं वर्त्तते । अत: अस्माकं सौभाग्यं वर्त्तते यत् संस्कृतशिक्षका: अत्र प्रशिक्षणं प्राप्स्यन्ति । अस्य प्रशिक्षणस्य समन्वयक: ओंकारमहोदय: उक्तवान् यत् अस्या: कार्यशालाया: आरम्भ: 12 फरवरीत: 16 फरवरीपर्यन्तम् अभवत्।
कार्यशालायामस्यां सिरमौरजनपदस्य पञ्चाशताधिकसंस्कृतशिक्षका: प्रशिक्षणं प्राप्तवन्त:। पञ्चदिवसीयकार्यशालायां शिक्षकै: शिक्षणाधिगमस्य प्रविधिनां विषये, भाषाकौशलानां विषये, भाषिकतत्त्वानां विषये, मूल्याङ्कनस्य विषये, नवशिक्षानीति: २०२० इत्यस्या: विषये, भाषाशिक्षणस्य साधनानां विषये च प्रशिक्षणं प्राप्तवन्त:। कार्यशालायां आचार्यराधेश्याम: , आचार्यमनोज:, प्रवीण: , दीपिका च स्रोतपुरुषरूपेण समुपस्थिता: भविष्यन्ति। ध्यातव्यं वर्तते यत् कार्यशालायांमस्यां शिक्षणप्रशिक्षणकार्यं संस्कृतमाध्यमेन एव अभवत् ।
भवता सुकार्यस्य या ज्वाला प्रज्वलिता, अधुना शनैः शनैः एषा ज्वाला प्रसरिष्यति।🤟👏👏👏
बहु शोभनः प्रयासः