हिमाचले शिक्षकाणां अशिक्षणकार्यं कर्तुं प्रतिबन्धं कर्तुं सर्वकारस्य निर्णयः
हिमसंस्कृतवार्ता- शिमला।
हिमाचलस्य सरकारीविद्यालयेषु कार्यरताः शिक्षकाः डाकपत्रं ग्रहीत्वा शिक्षानिदेशालयं सचिवालयं वा न गमिष्यन्ति। अध्यापकानाम् अभावात् विद्यालयेषु अध्ययनं प्रभावितं भवति इति कारणेन सर्वकारेण एषः निर्णयः कृतः। शिक्षकेभ्यः अशिक्षणकार्यस्य भारः सर्वकारेण न्यूनीकृतः। जालपुटात् सूचनां संग्रहीतुं अधिकारिभ्यः निर्देशं दत्त्वा ते दत्तांशैः सह शिक्षकान् आह्वयितुं अपि प्रतिबन्धं कृतम्। शिक्षासचिवेन राकेशकंवरेण प्राथमिक एवं उच्च शिक्षानिदेशकं सहितं समग्रशिक्षा अभियानस्य परियोजनानिदेशालयम् अस्मिन् सन्दर्भे निर्देशाः प्रदत्ताः।निदेशालयस्य सर्वासु शाखासु तथा सचिवालये शिक्षाविभागेन सम्बद्धानां शाखानां अधिकारिणः अपि आदेशानां अनुसरणं कर्तुं कथिताः सन्ति। निर्देशेषु स्पष्टतया उक्तं यत् शिक्षकेभ्यः किमपि प्रकारस्य अनावश्यकसूचनाः याच्यपत्राणि न निर्गन्तु। शिक्षकैः विद्यालयैः च सम्बद्धा प्रत्येका सूचना UDISE प्रतिवेदने तथा समग्रशिक्षा अभियानस्य राज्यपरियोजना निदेशालयस्य जालपुटे उपलभ्यते।