मुख्यमंत्रिणा सह अमिलत् मिस-अर्थ-इण्डिया-२०२२ राज्ये पर्यटनस्य प्रवर्धनार्थं सहकार्यं कर्तुं प्रकटिता इच्छा
हिमसंस्कृतवार्ता:- शिमला।
मिस-अर्थ-इण्डिया-2022 वंशिका परमार मुख्यमंत्रिणा सुखविन्दरसिंहसुक्खुना सह गतदिवसे शिमलायाम् अमिलत्। हमीरपुरजनपदस्य नादौन उपमण्डलस्य धनेटाग्रामस्य वंशिका २०२२ तमस्य वर्षस्य नवम्बरमासे फिलिपिन्स्देशे आयोजितायां प्रतियोगितायां १९ वर्षे एव एताम् उपाधिं प्राप्तवान् आसीत्। मुख्यमन्त्री उक्तवान् यत् वंशिका इत्यस्याः एषा उपलब्धिः अन्यबालिकाः स्वाभिरुचिक्षेत्रे उत्कृष्टतां प्राप्तुं प्रेरणास्पदा अस्ति। सः अवदत् यत् राज्यस्य कन्याः विविधक्षेत्रेषु प्राप्तैः उपलब्धिभिः हिमाचलं गौरवं कुर्वन्ति इति सुखस्य विषयः। सः वंशिकाया: आग्रहं कृतवान् यत् सा महिलासशक्तिकरणे राज्यसर्वकारस्य प्रयत्नानाम् समर्थनं करोतु, एकलपुत्र्याः कल्याणाय च सहकार्यं करोतु।
वंशिका परमार अपि राज्ये पर्यटनक्षेत्रस्य प्रचारार्थं स्वसमर्थनं विस्तारयितुम् इच्छां प्रकटितवती। सा सूचितवती यत् सा २०२३ वर्षस्य कृते घानादेशस्य पर्यटनराजदूता आसीत्। फिलिपिन्स्देशे पर्यटनक्रियाकलापानां प्रचारार्थं अभियानेन सह अपि सम्बद्धा अस्ति। अस्मिन् अवसरे वंशिकापरमार इत्यस्या: माता ऋतु परमार पिता समूहकप्तानः सुशीलकुमारपरमारः अपि उपस्थितौ आस्ताम्।