विगतेभ्यः नववर्षेभ्यः वाणिज्य- निवेश- रक्षा- खाद्य- ऊर्जा- सुरक्षा- शिक्षादि विभिन्नेषु क्षेत्रेषु भारत-संयुक्तारब- अमीरातयोः सहयोगः नैकगुणितः प्रवर्धित:- प्रधानमन्त्री
प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत् विगतेभ्यः नववर्षेभ्यः वाणिज्य- निवेश- रक्षा- खाद्य- ऊर्जा- सुरक्षा- शिक्षा- सदृशेषु विभिन्नेषु क्षेत्रेषु भारतस्य संयुक्तारब- अमीरातेन सह सहयोगः नैकगुणितः प्रवर्धितोऽस्ति, अनेन सहैव सांस्कृतिक- दृष्ट्यापि जनानां मध्ये संपर्कः दृढः सञ्जातो वर्तते। मोदिना अबुधाबी- मध्ये संयुक्तारब- अमीरातस्य राष्ट्रपतिना शेख- मोहम्मद- बिन- जाएद-अल-नाहयानेन सह मेलिष्यति, अपि च व्यापक- सामरिक- सन्धि- विस्तार- सम्बद्धेषु नैकविषयेष्वपि चर्चा करिष्यति। प्रधानमन्त्रिणा कथितं यत् किंचित्काल- पूर्वमेव मया गुजराते नाहयानस्य आतिथ्यं कर्तुमवसरः प्राप्तः आसीत्, यदा सः वाइब्रेंट- गुजरात- वैश्विक- शिखर- सम्मेलने चतुर्विंशत्यधिक- द्विसहस्रे मुख्यातिथित्वेन आसीत्। मोदिना प्रोक्तं यत् सः दुबई- मध्ये विश्व- शिखर- सम्मेलने संयुक्तारब- अमीरातस्य उपराष्ट्रपतेः, प्रधानमन्त्रिणः, रक्षामन्त्रिणः, तत्रत्यशासकस्य शेखमोहम्मद- बिन- राशिद- अल- मखतूमस्य निमन्त्रणे अत्रागतवान् तथा च अत्र आगत्य नैक- वैश्विक- नेतृभिः सह मिलित्वा तान् सम्बोधयिष्यति। मोदिना इदमपि प्रकथितं यत् शिखरसम्मेलनावसरे तत्रत्य- प्रधानमन्त्रिणा शेखमोहमम्मद- बिन- राशिदेन सहापि द्विपक्षीय- सम्बन्धान् द्रढयितुं चर्चा भविष्यति। अवधेयं यत् मोदी स्वीय- यात्राकाले अधुधाबी- मध्ये प्रथम- हिन्दूमन्दिरस्यापि उद्घाटनं करिष्यति। मन्दिरमिदं सद्भावनायाः सौहार्दस्य शान्तेः सहिष्णुतायाः शाश्वत- मूल्यानां च विस्तारे महत्त्वपूर्ण- भूमिकां निर्वक्ष्यति, अपि च द्वयोः देशयोरेव ईदृशः संकल्पो अपि वर्तते। प्रधानमन्त्री अबूधाबी- मध्ये एकस्मिन् विशेष- कार्यक्रमे भारतीयजनैः सहापि मेलनं कृत्वा तान् सम्बोधयिष्यति। मोदिना इदमपि कथितं यत् सः तत्रत्येन अमीर- शेख- तमीम- बिन- हम्द- अल- थानिना सहापि मेलिष्यति, यस्य च भूमिका तत्रत्य- विकासे महत्त्वपूर्णा विद्यते, एतस्य च नेतृत्वे संयुक्तारबे आश्चर्यजनक- विकासं परिवर्तनं च दृष्टमस्ति। मोदिना भणितं यत् भारत- कतर- मध्ये ऐतिहासिकरूपेण मैत्रीपूर्णाः घनिष्ठसम्बन्धाश्च सन्ति।
भारत-संयुक्तारब- अमीरातयोः सहयोगः नैकगुणितः प्रवर्धित:- प्रधानमन्त्री
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment