लघ्वीकाश्यां मण्ड्यां जिलाप्रशिक्षणसंस्थानस्य सायुज्ये सेवारतानां संस्कृतशिक्षकाणां प्रशिक्षणकार्यशालाया: शुभारम्भ:
हिमसंस्कृतवार्ता- मण्डी।
प्रदेशे शिक्षाक्षेत्रे गुणवत्ताम् आनेतुं सर्वकारेण नैका: प्रयासा: क्रियन्ते। विविधजनपदेषु शिक्षकाणां प्रशिक्षणकार्यशालानाञ्च क्रियते। तत्रैव मण्डीजनपदस्य जिलाप्रशिक्षणसंस्थानस्य खण्डस्रोतसमन्वयकस्य केन्द्रस्य सभागारे खलियारे संस्कृतशिक्षकाणां कक्षाषष्ठीत: अष्टमीपर्यन्तं प्रशिक्षणकार्यशालाया: आयोजनम् अभवत्। अस्मिन् अवसरे जिलाप्रशिक्षणसंस्थानस्य शिक्षणप्रभारी रजनीशचौधरी शिक्षकान् सम्बोधयन् उक्तं यत् विश्वस्य प्राचीनतमा भाषा संस्कृतं वर्त्तते। अत: अस्माकं सौभाग्यं वर्त्तते यत् संस्कृतशिक्षका: अत्र प्रशिक्षणं प्राप्स्यन्ति। अस्य प्रशिक्षणस्य स्रोतव्यक्तिरुपेण उपस्थित: डॉ मनोजकुमारशैल: उक्तवान् यत् अस्या: कार्यशालाया: आरम्भ: १४ फरवरीत: १७ फरवरीपर्यन्तम् भविष्यति। कार्यशालायामस्यां मण्डीजनपदस्य षष्ट्याधिकसंस्कृतशिक्षका: प्रशिक्षणं प्राप्स्यन्ति। पञ्चदिवसीयकार्यशालायां शिक्षकै: शिक्षणाधिगमस्य प्रविधिनां विषये, भाषाकौशलानां विषये, भाषिकतत्त्वानां विषये, मूल्याङ्कनस्य विषये, नवशिक्षानीति: २०२० इत्यस्या: विषये, भाषाशिक्षणस्य साधनानां विषये च प्रशिक्षणं प्रदास्यते। कार्यशालायां डॉ मनोहरलाल:, डॉ सेवकराम:, नरेन्द्र:, हंसराजसांख्यायन: च स्रोतपुरुषरूपेण समुपस्थिता: भविष्यन्ति। ध्यातव्यं वर्तते यत् कार्यशालायामस्यां शिक्षणप्रशिक्षणकार्यं संस्कृतमाध्यमेन एव भविष्यति।