मुख्यमंत्री सुखविन्दरसिंहसुक्खुः- राज्ये क्रीडाप्रतिभानाम् उन्नयनाय नूतना क्रीडानीति: आनयते
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्ये क्रीडामूलसंरचनां सुदृढां कर्तुं सर्वकारः नूतनां व्यापकं क्रीडानीतिम् आनयति। अस्याः क्रीडानीतेः मुख्योद्देश्यं राज्ये उदयीमानानाम् क्रीडाप्रतिभानां प्रोत्साहनं तथैव क्रीडकानां कृते उत्तमसुविधाः प्रदातुं च अस्ति। मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः राज्ये क्रीडकानां कृते उत्तमसुविधाः प्रदातुं क्रीडायाः स्तरस्य अधिकोन्नयनं कर्तुं प्रतिबद्धः अस्ति। क्रीडकानां कृते पर्याप्तं संसाधनं सुविधां च प्रदातुं सर्वकारस्य प्राथमिकता अस्ति।
एतत् लक्ष्यं मनसि कृत्वा नूतना क्रीडानीतिः निर्मितः अस्ति। प्रस्तावितायाः क्रीडानीतेः अन्तर्गतं अन्ताराष्ट्रीयस्तरस्य हिमाचलस्य गौरवम् आनयन्तः क्रीडकाः पुरस्कारधनस्य महती वृद्धिः भविष्यति। एतत् पदं न केवलं क्रीडकान् उत्तमं प्रदर्शनं कर्तुं प्रोत्साहयिष्यति अपितु विश्वस्तरीयस्पर्धासु देशस्य राज्यस्य च प्रतिनिधित्वं कुर्वतां क्रीडकानां अथकं कार्यं प्रयत्नस्य च पुरस्कारं दास्यति। अन्ताराष्ट्रीयस्तरस्य स्पर्धासु राज्यस्य बहवः क्रीडाव्यक्तय: स्वप्रतिभां सिद्धं कृतवन्तः, उत्तमक्रीडासंरचनाम् अन्यसुविधाः च प्रदातुं तेषां भविष्यं वर्धयितुं सर्वकारः दृढनिश्चयः अस्ति। सुक्खुः उक्तवान् यत् नूतना नीतिः क्रीडाप्रतिभानां पोषणं कृत्वा उत्कृष्टतां प्रवर्धयितुं हिमाचलं देशस्य क्रीडाकौशलकेन्द्रत्वेन स्थापयितुम् एकं सुदृढंपदं वर्तते।