केरलकलारूपाणां राष्ट्रियकार्यशाला फरवरीमासस्य 12 दिनाङ्कतः 16 दिनाङ्कपर्यन्तं प्रचालयिष्यते
हिमसंस्कृतवार्ताः,12फरवरी। केन्द्रीयसंस्कृतविश्वविद्यालयस्य गुरुवायूर्-परिसरस्य पावरट्टीकेन्द्रे पञ्चदिवसात्मिका केरलकलारूपाणां राष्ट्रियकार्यशाला फरवरीमासस्य 12 दिनाङ्कतः 16 दिनाङ्कपर्यन्तं प्रचालयिष्यते । चन्द्रवासरे द्वादशदिनाङ्के दिनाङ्के प्रातः दशवादने पावरट्टीकेन्द्रस्य सभागारे नवदेहलीस्थ World Sanskrit Media Council इत्यस्याः संस्थायाः राष्ट्रियनिदेशकः राष्ट्रपतिपुरस्कृतः च डा बलदेवानन्दसागरः केरलकलारूपाणां राष्ट्रियकार्यशालायाः उद्घाटनम् अकरोत् । उद्घाटनभाषणे तेन उक्तं यत् भारतीयकलाः विभिन्नप्रकारिकाः सन्ति तत्रापि विशिष्य केरलीयकलाः अत्यन्तं विशिष्टाः सन्ति तेषु प्रसिद्धाः कूटियाट्टम्, कथक्कलि, मोहिनीयाट्टम् इत्यादयः। एताभिः कलाभिः भारतीयसंस्कृतिः संस्कृतभाषायाः विकासः च भवेत् । केन्द्रीयसंस्कृतविश्वविद्यालयस्य गुरुवायूर्-परिसरस्य वेदान्तविभागाध्यक्षा प्रभारी-निदेशिका च आचार्या आर्. प्रतिभामहोदया कार्यशालायाः उद्घाटनकार्यक्रमे आध्यक्ष्यं निरवहत् । केन्द्रीयसंस्कृतविश्वविद्यालयस्य गुरुवायूर्-परिसरस्य पावरट्टीकेन्द्रस्य विशेषाधिकारी केन्द्राधीक्षकः च आचार्यः के. विश्वनाथन् स्वागतभाषणमकरोत्। केन्द्रीयसंस्कृतविश्वविद्यालयस्य गुरुवायूर्-परिसरस्य पावरट्टीकेन्द्रस्य संयोजकः शिक्षाशास्त्रविद्याशाखायाः सहायकाचार्यः डा के. गिरिधररावः धन्यवादसमर्पणं कार्यक्रमसञ्चालनञ्च अकरोत्। अस्मिन् कार्यक्रमे 37 प्रतिभागिनः वर्तन्ते।
केरलकलारूपाणां राष्ट्रियकार्यशाला फरवरीमासस्य 12 दिनाङ्कतः 16 दिनाङ्कपर्यन्तं प्रचालयिष्यते
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment