HP Budget 2024-25 : अपेक्षाणाम् आय-व्ययकम् ,
हिमाचले महिलाभ्य: १५०० रुप्यकाणि युवभ्य: जीविकाया: आशा
हिमसंस्कृतवार्ता- शिमला।
१७ फरवरी दिनाङ्के मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः इत्यनेन प्रस्तुयमानस्य आय-व्ययकात् राज्यस्य महिलानां कृते प्रतिमासं १५०० रूप्यकाणि प्राप्यन्ते, युवभ्य: जीविका अपि भविष्यति इति अपेक्षा अस्ति। सम्प्रति केवलं स्पीति-महिलाभ्यः एव राज्ये १५००-१५०० रूप्यकाणां मानदं दत्तम् अस्ति । अन्येषु मण्डलेषु एतस्याः योजनायाः आरम्भस्य प्रतीक्षा वर्तते। सद्यः एव काङ्ग्रेसस्य शीर्षनेतृत्वेन अपि लोकसभानिर्वाचनात् पूर्वं महिलाभ्यः एतां राशिं दातुं निर्देशाः निर्गताः। एतादृशे सति मुख्यमन्त्री स्वस्य बजटभाषणे महिलानां कृते महतीं घोषणां करिष्यति इति अपेक्षा अस्ति। अपरपक्षे अनुद्योगिन: कर्मचारीनियुक्ति-आयोगहमीरपुरद्वारा नियुक्तेः आरम्भस्य प्रतीक्षां कुर्वन्ति। विधानसभानिर्वाचनस्य समये काङ्ग्रेसेन महिलाभ्यः प्रतिमासं १५०० रूप्यकाणां आश्वासित-आयस्य प्रतिज्ञा दत्ता आसीत् । सर्वकारस्य निर्माणानन्तरं स्पीतितः एषा योजना आरब्धा अस्ति । स्पीति उपत्यकायाः २८६ बौद्धभिक्षुणीः सहितं ८४० महिलाभ्यः १५०० रूप्यकाणां मासिकप्रोत्साहनराशिः प्रदत्ता अस्ति। अस्याः योजनायाः अन्तर्गतं राज्यस्य २.३१ लक्षं महिलाः पात्रतां प्राप्तवन्तः । इयं राशिः अनुसूचितजातीयानां, अन्यपृष्ठवर्गाणां, अल्पसंख्याकानां विशेषसक्षमानां च सशक्तिकरणविभागस्य माध्यमेन दातव्या अस्ति।
राज्ये प्रथमचरणस्य 1000, 1150 रुप्यकाणां वृत्तिं गृह्णन्तीनां महिलानां कृते 1500 रुप्यकाणि प्रदत्तानि भविष्यन्ति। १८ तः ५९ वर्षाणि यावत् आयुषः अन्याः योग्याः महिलाः चरणबद्धरूपेण योजनायां समाविष्टाः भवेयुः। एतादृशे सति सम्भवति यत् मुख्यमन्त्री स्वस्य द्वितीये आय-व्ययके केषाञ्चन योग्यानां महिलानां कृते एतस्याः योजनायाः आरम्भस्य घोषणां करिष्यति। अपरपक्षे राज्यस्य यूनां कृते जीविकाया: अवसरान् प्रदातुं सर्वकारेण हमीरपुरे नूतनं चयनायोगं सङ्घटितम्। अस्य आयोगस्य कार्यालये शीघ्रमेव नियुक्तिः आरभ्यते इति अनुद्योगिन: प्रतीक्षन्ते। निर्वाचनसमये काङ्ग्रेसेन पञ्चलक्षं कार्याणि प्रदातुं घोषणा कृता आसीत् । अस्य अन्तर्गतं सर्वकारीयनिजीक्षेत्रेषु जीविकाया श: अवसरानां अन्वेषणं क्रियते । निजीकम्पनीभिः सह निरन्तरं अनुबन्धं कुर्वन् अस्ति सर्वकारः । योग्ययुवानां कृते रोजगारकार्यालयद्वारा कार्याणि प्रदत्तानि सन्ति। आगामिदिनेषु राज्ये २० सहस्राणि नूतनानि कार्याणि प्रदातुं लक्ष्यं सर्वकारेण निर्धारितम् अस्ति। अपेक्षा अस्ति यत् मुख्यमन्त्री लोकसेवा-आयोगशिमला तथा कर्मचारी-चयन-आयोगहमीरपुरं अधिकं सुदृढं करिष्यति, येन बजटे अधिकानि कार्याणि प्राप्तुं पेटिका उद्घाटिता भविष्यति।
महिलानां युवानां च एताः अपेक्षाः सन्ति
> अनिलकोषस्य मूल्यं न्यूनीकर्तुं राज्यसर्वकारेण स्वकीयं अनुदानं दातव्यम्।
> सुरक्षादृष्ट्या राज्ये महिलापुलिसस्थानकानां संख्या वर्धनीया। पुलिसबले अपि महिलानां सहभागिता वर्धनीया।
> युन: मादकपदार्थेभ्य: वारयितुं पंचायतस्तरे व्यायामशाला: उद्घाटनीया:, खेल गतिविधीनां च प्रचार भवेत्।
> ओलम्पिकक्रीडायाः कृते क्रीडकान् सज्जीकर्तुं राज्यस्तरस्य आधुनिकसुविधायुक्तानि प्रशिक्षणकेन्द्राणि उद्घाटितव्यानि।