हिमाचल कांग्रेस : लोकसभानिर्वाचनार्थं निर्मितः केन्द्रीकृतनिर्देशकक्षः
अखिलभारतीयकाङ्ग्रेससमित्याः अनुमोदनानन्तरं सङ्घटितम्
हिमसंस्कृतवार्ता- शिमला।
लोकसभानिर्वाचनं दृष्ट्वा काङ्ग्रेसेन केन्द्रीकृतनिर्देशकक्षस्य निर्माणं कृतम् अस्ति। अखिलभारतीयकाङ्ग्रेससमित्याः अनुमोदनानन्तरं केन्द्रीकृतनिर्देशकक्षस्य सङ्घटनम् कृतम् अस्ति । केन्द्रीकृतनिर्देशकक्षे १६ अधिकारिणः समाविष्टाः सन्ति, तेभ्यः सर्वेभ्यः पृथक्-पृथक् दायित्वं च नियुक्तम् अस्ति । हरिकृष्ण-हिमरालेन बृहत्तमं दायित्वं प्राप्तम् अस्ति। राज्यसर्वकारस्य अखिलभारतीयकाङ्ग्रेससमित्याः च मध्ये समन्वयस्थापनस्य दायित्वं तस्य प्राप्तम् अस्ति। लोकसभानिर्वाचनपर्यन्तं हिमरालः समन्वयकस्य भूमिकां निर्वहति। एतेषां अतिरिक्तं तरुणपाठकः कानूनी विषयेषु समन्वयं करिष्यति। कप्तान एस के सहगल विभागीय समन्वयक:, चन्द्रमोहन: अधिवक्ता निर्वाचनायोग: तथा प्रशासनिकसमन्वयक:, नितिन राणा सोशलमीडिया-समन्वयक:, जी. एस तोमर: मीडियासमन्वयक: नियुक्त: अस्ति। चतुर्षु लोकसभासनेषु काङ्ग्रेसेन शिमलायां बलदेवठाकुरं, काङ्गड़ायां वीरेन्द्रजसवालं, मण्ड्यां त्रिलोकसूर्यवंशीं, अतुलशर्मा च, हमीरपुरे विक्रमशर्मा, हार्दिकशर्मा, रणदीपठाकुरं च समन्वयकत्वेन, विवेकशर्मां विधिप्रशासनिकसमन्वयकत्वेन च नियुक्त: देवेन्द्र शर्मा विनय मेहता च उभौ विधिविभागे समन्वयकौ नियुक्तौ। अस्मिन् विषये केन्द्रीकृतनिर्देशकक्षस्य अध्यक्षेन अमितपालसिंहेन आदेशाः निर्गताः सन्ति।