पाणिनीयव्याकरणस्य उत्पत्ति: विकासक्रम: च
पाणिनि:
पाणिनि: सर्वेषां व्याकरणाचार्याणां मूर्धन्य:। एतस्य काल: ख्रिस्तपूर्वम् अष्टमं शतकमिति मन्यते। एष: अधुनातनपाकिस्थाने युसुफजाईकन्धरायां (या ह्यूएनत्सङ्गस्य काले उद्यानम् नाम्ना प्रसिद्धा आसीत् ) वर्तमानस्य शालातुरग्रामस्य वासी आसीत्। अत: तस्य शालातुरीय: इति आह्वा। पाणिनि: इति तस्य गोत्रनाम। तस्य पिता शलङ्क: माता च दाक्षि: अत: एष: शालङ्कि:, दाक्षिपुत्र: पणिपुत्र: इत्यादिभि: बहुभि: नामभि: ज्ञायते। छन्द:सूत्राणां कर्ता पिङ्गल: एतस्य अनुज:। तस्य आचार्य: वर्षोपाध्याय:, मातुल: व्याडि: मातामह: व्यड:। कौत्स-कात्यायनप्रभृतय: एतस्य शिष्या: आसन्।
आख्यायिका एवं वर्तते यत् पाणिनि: महेश्वरात् संस्कृतवर्णमालोपदेशं प्राप्य स्वस्य व्याकरणं रचितवान् अत: माहेश्वरशास्त्रम् इति नाम्ना अपि एतत् व्याकरणं प्रसिद्धम्। अत एवोच्यते–
येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नम:।।
पाणिनि: महेश्वरात् कथं वर्णमालोपदेशं प्राप्तवान् एतत्सम्बन्धे नन्दिकेश्वरकाशिकायाम् उक्तम्–
नृत्ताववसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम्।
उद्धर्तुकाम: सनकादिसिद्धानेतद्विमर्षे शिवसूत्रजालम्।।
सनकादिसिद्धानाम् उद्धर्तुं चिकीर्षमाणेन नटराजशिवेन ताण्डवं कृतम्। नृत्यस्य समाप्तौ स: चतुर्दशवारं स्वस्य ढक्कां नादयामास। तत: पाणिनि: चतुर्दशसूत्रेषु संस्कृतवर्णमालोपदेशम् अधिगतवान्। तेषामाधारेण स: स्वस्य व्याकरणस्य रचनां कृतवान्। पाणिने: व्याकरणं सूत्रबद्धम् अस्ति। सूत्रं नाम किम्?
अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम्।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदु:।।
यस्मिन् अल्पानि अक्षराणि सन्ति, तथापि यस्य अर्थावगमे सन्दिग्धता न भवति, यत् महोपदेशस्य सार: एव अस्ति तथा च विषयस्य सर्वाणि अङ्गानि स्पृशति, यत् आडम्बररहितं तथा च दोषरहितम् अस्ति तस्य वाक्यस्य नाम सूत्रम् इति सूत्रविदां मान्यता।
पाणिनिकृतस्य सूत्रग्रन्थस्य नाम अष्टाध्यायी इति। एतस्मिन् ग्रन्थे आहत्य ३९९६ सूत्राणि आसन् इति उच्यते।
त्रीणि सूत्रसहस्राणि तथा नवशतानि च।
षण्णवतिश्च सूत्राणां पाणिनि: कृतवान् स्वयम्।।
तथापि सम्प्रति एतेषु ३९८३ एव सूत्राणि उपलभ्यन्ते। एतानि सूत्राणि अष्टसु अध्यायेषु विभक्तानि सन्ति। प्रत्येकम् अध्याये पुन: चत्वार: पादा: वर्तन्ते। एवमाहत्य ३२ पादा: सन्ति।
अष्टाध्याय्यां प्रतिपादिता: विषया: सामान्यत: एवम्–
१) वाक्येभ्य: पदानां सङ्कलनम्। ( अध्याय: १,२)
२) पदानां प्रकृति-प्रत्ययविभाग:। (अध्याय: ३,४,५)
३) प्रकृतिप्रत्ययै: सह आगमादेशादीनां योजनेन परिनिष्ठितपदानां निर्मिति:। (अध्याय: ६,७,८)
पाणिने: महत्तां प्रतिपादयन् भाष्यकार: वदति– ‘प्रमाणभूत: आचार्य: दर्भपवित्रपाणि: शुचावकाशे प्राङ्मुख: उपविश्य महता प्रयत्नेन सूत्राणि प्रणयति स्म। तत्राशक्यं वर्णेनाप्यनर्थकेन भवितुं किं पुनरियता सूत्रेण?’ काशिकाकार: वदति ‘महती सूक्ष्मेक्षिका वर्तते सूत्रकारस्य।’
अष्टाध्यायी (सूत्रपाठ:) धातुपाठ:,गणपाठ:, लिङ्गानुशासनम्, उणादिसूत्राणि च एवमाहत्य पञ्च ग्रन्था: पाणिनिना प्रणीता:। अत: एतत् पञ्चाङ्गव्याकरणम् इत्यपि एतदुच्यते।
सूत्रपाठ उणादिश्च नामलिङ्गव्यवस्थिति:।
धातुराशि: गणानां च पञ्चाङ्गं पाणिने: कृति:।।
अव्युत्पन्नानां रूढशब्दानां व्युत्पत्तिं दर्शयितुं रचितानि उण्-नामकेन तद्धितप्रत्ययेन आरभमाणानि उणादिसूत्राणि। नाम्नां लिङ्व्यवस्थां कथयत् शास्त्रं लिङ्गानुशासनम्।
क्रियावाचकानां धातूनां सङ्ग्रह: धातुपाठ:। अनुगतसामान्यधर्मेण निर्देष्टुम् अर्हाणां शब्दानां सङ्ग्रह: गणपाठ:।
पाणिनीयव्याकरणं वैदिकानां लौकिकानां च उभयविधानां शब्दानाम् अनुशासनं करोति। केवलम् उपचतु:सहस्त्रसूत्रै: वयं असङ्ख्यातानां साधुशब्दानां निर्माणम् अर्थावगमं व्युत्पत्तिदर्शनं च कर्तुं पारयाम:। सङ्क्षेपार्थं पाणिनिना उपयोजिता: उपाया: अभिनवा: सन्ति। उपदेशा:, अनुबन्धा:, प्रत्याहारा:, पूर्वसूत्रपदानाम् अग्रिमसूत्रेषु अनुवृत्ति:, अधिकारसूत्राणि, परसूत्राणाम् असिद्धत्वम् इत्यादिभि: नैकै: युक्तिभि: पाणिनि: व्याकरणे लघुतां सम्पादितवान्। एषा अत्यन्तं वैज्ञानिकी पद्धति:। अत: एव सङ्गणाकाय संस्कृतं तथा पाणिनीयव्याकरणं अत्यननतम् उपकारि वर्तते इति आधुनिकभाषाविद: वैज्ञानिकाश्च वदन्ति।
एतस्मात् ‘पाणिनीयव्याकरणं मानवमस्तिष्कस्य सर्वोत्तमाविष्कारेषु एक: अस्ति’ इति मोनिअर विल्यम्स् उक्तवान्। एतस्य व्याकरणस्य वैज्ञानिकतैव तस्य त्वरितप्रचारस्य प्रसारस्य च कारणम्।
—-
श्री.अभिजित्-तोडकर:
सुभाषितशिक्षणप्रमुख:
संस्कृतभारती, पश्चिममहाराष्ट्रप्रान्त:।