आचार्यप्रमोदकृष्णमः काङ्ग्रेस-दलेन ६ वर्षाणि यावत् दलात् निष्कासितः, यः अनेकवारं काङ्ग्रेस-विरुद्धं वक्तव्यं दत्तवान् आसीत्।
काङ्ग्रेस-दलेन स्वनेतार आचार्यप्रमोदकृष्णम: दलात् निष्कासित:। आचार्यप्रमोदकृष्णमः काङ्ग्रेस-दलेन ६ वर्षाणि यावत् दलात् निष्कासितः अस्ति। प्रमोदकृष्णमः अद्यतनकाले अनेकवारं काङ्ग्रेस-विरुद्धं वक्तव्यं दत्तवान् आसीत्। अपि च, सः केभ्यश्चित् दिवसेभ्यः भाजपा-दलस्य बहु-प्रशंसां कुर्वन् आसीत्। तेन प्रधानमन्त्रिणा नरेन्द्रमोदिना सहितम् अनेक-भाजपानेतृभिः सहापि साक्षात्कारः कृतः आसीत्। “प्रधानमन्त्रिण: नरेन्द्रमोदिन: उपरि दिव्यशक्तेः कृपा” इति काङ्ग्रेसनेता आचार्यप्रमोदः प्रधानमन्त्रिणा सह मिलित्वा एतां उद्घोषणां कृतवान् उक्तवान् च यत् दण्डस्य सामना कर्तुं सज्जः अहम्।
प्रमोद कृष्णमः काङ्ग्रेस-दलं किमर्थं त्यक्तवान्
आचार्यप्रमोदकृष्णमस्य उपरि आरोपः अस्ति यत् सः दलस्य विरुद्धं वक्तव्यं दत्तवान्, अनुशासनहीनतां च दर्शयति, तदनन्तरं दलेन एतत् पदं गृहीतम्। काङ्ग्रेसेन उक्तम् यत् “अनुशासनहीनतायाः अभियोग:, दलविरुद्धं पुनः पुनः वक्तव्यं च दृष्ट्वा उत्तरप्रदेशस्य काङ्ग्रेससमित्याः प्रमोदकृष्णमस्य तत्काल-प्रभावेण षड्वर्षाणां कृते दलात् निष्कासनस्य प्रस्तावः काङ्ग्रेसाध्यक्षः अनुमोदितः अस्ति।
प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मिलितवान् आसीत्
कृष्णमः विगत-दिवसेषु प्रधानमन्त्रिणं नरेन्द्रमोदिनं मिलित्वा “श्री कल्कीधाम” इत्यस्य शिलान्यास-समारोहाय आमन्त्रितवान् आसीत्। एतदतिरिक्तं प्रमोदकृष्णमः स्मृति-ईरानीं राजनाथसिंहं च मिलितवान् अस्ति। किञ्चित्कालं यावत् प्रमोदकृष्णमः प्रधानमन्त्रिण: प्रशंसां कुर्वन् काङ्ग्रेस-दलस्य आलोचनां च कुर्वन् आसीत्।
प्रधानमन्त्रिण: नरेन्द्रमोदिन: बहु-प्रशंसा
अस्मिन् मासे एव शिलान्यास-समारोहस्य निमन्त्रणं स्वीकृत्य प्रधानमन्त्रिणे नरेन्द्रमोदिने आचार्यप्रमोदः अपि धन्यवादं दत्तवान् आसीत्। “एक्स” इत्यत्र प्रधानमन्त्रिण: नरेन्द्रमोदिन: प्रशंसा कुर्वन् प्रमोदः लिखितवान् आसीत् यत् सः दिव्यशक्त्या धन्यः अस्ति। आचार्यप्रमोदकृष्णमः उक्तवान्- “प्रथमवारं प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मिलितवान्। प्रधानमन्त्री निश्चितरूपेण केनचित् दिव्यशक्त्या धन्यः इति वक्तुं मम कोऽपि संकोचः नास्ति। सभायाः अनन्तरं यत्किमपि मया अनुभूतं तत् दिव्यम् इति वक्तुं शक्नोमि। तस्य प्रतिरूपम्, बलम्, तानि भावनानि च शब्दैः व्यक्तुं न शक्नोमि, वर्णयितुं न शक्यन्ते, इति।
वार्ताहरः- नरेशमलोटिया, नादौनम् हमीरपुरम् हि.प्र.