आर्थिकक्षेत्रे पी वी नरसिंहारावाय, कृषकाणां कल्याणाय चौधरीचरणसिंहाय हरितक्रान्तेः जनकाय एम. एस. स्वामीनाथनाय च देशस्य सर्वोच्चसम्मानं भारतरत्नं दातुं घोषणा
सर्वकारेण पूर्वप्रधानमन्त्रिणे पी वी नरसिंहारावाय, कृषकाणां विषये पूर्वप्रधानमन्त्रिणे चौधरीचरणसिंहाय हरितक्रान्तेः जनकाय एम. एस. स्वामीनाथनाय च देशस्य सर्वोच्चसम्मानं भारतरत्नं दातुं घोषणा कृता। प्रधानमन्त्रिणा नरेन्द्रमोदिना सामाजिकान्तर्जालीय सन्देशे सूचना प्रदत्ता। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् विशिष्ट-विदुषा राजनेत्रा रावगुरुणा स्वीयोत्कृष्टकार्यं देशाय समर्पितम् । श्रीराबेन भारतं आर्थिकरूपेण उन्नतं-समृद्धं-आर्थिकवृद्धौ च सुदृढ़संरचना स्थापयितुं महत्वपूर्णभूमिकायाः निर्वहणं कृतमासीत्। प्रधानमिन्त्रणा उक्तं यत् भारतस्य विदेशनीतेः भाषाशिक्षायाश्च क्षेत्रेषु श्रीरावगुरोः योगदानं बहुपक्षीयधरोहरम् अस्ति। श्रीमोदिना उक्तं यत् देशस्य पूर्वप्रधानमन्त्रिणे चौधरी चरणसिंहाय भारतरत्न-सम्मानं प्रदास्यते। इदं सम्मानं देशस्य कृते तस्य अतुलनीय योगदानाय समर्पित्तमस्ति। चौधरी चरणसिंहेन कृषकाणाम् अधिकाराय कल्याणाय च सम्पूर्णजीवनमर्पितमासीत्। प्रधानमन्त्रिणा उक्त यत् चौधरी चरणसिंहेन आपत्कालं बिरुध्य प्रशासनीय- कार्यं कृतम्। प्रधानमन्त्रिणा एम् एस् स्वामीनाथाय भारतरत्नेन सम्माने प्रसन्नता व्यक्तिकृता। श्रीमोदिना उक्तं यत् डॉ. एम. एस स्वामीनाथनवर्येण कृषिकृषकाणां च कल्याणे उल्लेखनीयं योगदानं प्रदत्तम्। तेन समाहृानकाले कृषिक्षेत्रे देशं आत्मनिर्भरं कारयितुम् अपि च भारतीयकृषिक्षेत्रस्य आधुनिकीकरणाय असाधारणं प्रयासं कृतम्। नव प्रवर्तकरूपेण तस्य बहुमूल्यकार्यं महत्वपूर्णं प्रवदत्ता श्रीमोदिना प्रोदीरितं यत् डॉ. स्वामीनाथनस्य दूरदर्शी नेतृत्वेन भारतस्य कृषिकार्याणां कायाकल्पं कृतम् अपि च राष्ट्रस्य खाद्यसुरक्षा-समृद्धिः चापि सुनिश्चिता।
भारतरत्न-पूर्वप्रधानमन्त्रिणे पी वी नरसिंहारावाय, चौधरीचरणसिंहाय, एम. एस. स्वामीनाथनाय च भारतरत्नं दातुं घोषणा
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment