राज्यसभाया: एकासनाय नामाङ्कनप्रक्रिया आरब्धा, २७ फरवरी दिनाङ्के भविष्यति मतदानम्
हिमसंस्कृतवार्ता:- शिमला।
राज्यसभानिर्वाचनस्य नामाङ्कनप्रक्रिया गतदिवासद् आरभ्य आरब्धा। हिमाचलप्रदेशस्य राज्यसभायाः एकस्य आसनस्य निर्वाचनसम्बद्धा अधिसूचना निर्गता अस्ति। सांसद जगतप्रकाशनड्डा इत्यस्य कार्यकालस्य अन्ते २ अप्रैल दिनाङ्के निवृत्तेः परिणामेण हिमाचलप्रदेशात् राज्यसभासनं रिक्तं भवति। रिक्तासनं पूरयितुम् गुरुवासरे राज्यसभानिर्वाचनाय निर्वाचनाधिकारी एवन सचिव विधानसभा यशपालशर्मणा अधिसूचना प्रसारिता।
निर्वाचनार्थं नामाङ्कनपत्रं दातुं अन्तिमातिथिः १५ फरवरी, नामाङ्कनपत्राणां निरीक्षणस्य तिथिः १६ फरवरी अस्ति। नामनिवृत्तेः अन्तिमतिथिः २० फरवरी मंगलवासरः अस्ति। मतदानस्य तिथिः २७ फरवरी मंगलवासरे निर्धारिता अस्ति। मतदानसमयः प्रातः ९ वादनतः सायं ४ वादनपर्यन्तं भविष्यति। मतगणना २७ फरवरी मंगलवासरे सायं ५ वादने भविष्यति। यत्र सम्पूर्णनिर्वाचनप्रक्रियायाः समाप्तेः तिथिः २९ फेब्रुवरी इति निर्धारिता अस्ति
।