लोकसभा निर्वाचनम्: हिमाचले सर्वेक्षणमाध्यमेन भविष्यति काङ्ग्रेसदलस्य प्रत्याशीनां चयनम्
हिमसंस्कृतवार्ता:- शिमला।
हिमाचलप्रदेशे लोकसभानिर्वाचने काङ्ग्रेस-अभ्यर्थिनः भवितुं आवेदनं कुर्वतां सर्वेषां चयनं सर्वेक्षणस्य आधारेण भविष्यति। राज्यस्य चतुर्णां संसदीयक्षेत्रेषु सर्वेक्षणं कृत्वा उत्तमानाम् आवेदकानां नाम परीक्षणसमित्याः समीपं प्रेषितं भविष्यति। इच्छुक नेतारः आवेदनेन सह १०,००० रूप्यकशुल्कं शिमला राजीवभवने निक्षेपं कर्तुं प्रवृत्ताः भविष्यन्ति। सोमवासरे सायंकाले नवदेहल्यां मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः राज्यकाङ्ग्रेसस्य अध्यक्षा प्रतिभासिंह, चयनसमित्याः अध्यक्ष:, पूर्वरेलराज्यमन्त्रिणा भक्तचरणदासेन सह आयोजितायां सभायां सहमति: अभवत्। विधानसभानिर्वाचनस्य पङ्क्तौ अधुना लोकसभानिर्वाचनार्थम् अपि आवेदनपत्राणि आमन्त्रयितुं दलेन निर्णयः कृतः। अस्मिन् सप्ताहे आवेदनस्य तिथिः निर्धारिता भविष्यति इति दलस्य सूत्रै: उक्तम्। राज्यकाङ्ग्रेसमुख्यालयसहित- जनपदकाङ्ग्रेससमितीनां माध्यमेन अपि आवेदनपत्राणि आमन्त्रितानि भविष्यन्ति। लघुसूच्यानन्तरं समितिः स्वस्तरस्य आवेदकानां क्षेत्रसर्वेक्षणं करिष्यति। सर्वेक्षणस्य माध्यमेन आवेदकस्य लोकप्रियता, समाजस्य दलस्य च समर्पणस्य, प्रतिबिम्बस्य, इतिहासस्य च विषये जनस्य कार्यकर्तृणां च विषये मापितं भविष्यति। श्रेष्ठतया प्राप्तेभ्यः नेतृभ्यः दलस्य नामपत्रं दातुं प्रस्तावः प्रेषितः भविष्यति। चयनसमितिः नामानि लघूसूची कृत्वा एकं पटलं निर्माय शीर्षनेतृत्वाय अनुमोदनार्थं प्रेषयिष्यति।