शरदपवारात् राकांपा-दलम् अपहृतम्, निर्वाचनचिह्नम् अपि गतम्। निर्वाचन-आयोगः सहमतो जातः यत् अजीतस्य समूहः एव वास्तविकं राकांपा-दलम् अस्ति।
हिमसंस्कृतवार्ताः,नरेशमलोटिया। महाराष्ट्रे राष्ट्रवादी-काङ्ग्रेस-पक्षस्य विवाद-विषये निर्वाचन-आयोगेन स्वनिर्णयः प्रदत्तः। शरदपवार- समूहाय महत् प्रहारं दत्त्वा निर्वाचन-आयोगेन अजीतपवार- समूहं वास्तविकं राकांपा इति दलं मन्यते। राकांपापक्ष- विवादस्य दशाधिकवारं श्रवणानन्तरं निर्वाचन-आयोगेन निर्णयः प्रदत्तः। निर्वाचन-आयोगेन अजीत-पवाराय राकांपानाम, प्रतीकं च दत्तम् अस्ति। ततः पूर्वं निर्वाचन- आयोगेन शिवसेनापक्ष- विवादस्य उद्धवठाकरे इत्यस्मै महत् प्रहारं कृत्वा शिन्दे-समूहस्य कृते अपि वास्तविकं शिवसेना इति वर्णितम् आसीत्। आयोगेन स्वनिर्णये याचिकायाः निर्वाह-क्षमतायाः निर्धारित- परीक्षाणाम् अनुसरणं कृतम्, यस्मिन् दलस्य संविधानस्य दृष्ट्या उद्देश्यस्य परीक्षणं, दलसंविधानस्य परीक्षणं, संगठनात्मकं विधायिकं च बहुमतस्य परीक्षणं च अन्तर्भवति स्म। तस्मिन् एव काले निर्वाचन-आयोगेन आगामि- राज्यसभा- निर्वाचनं दृष्ट्वा शरदपवार- समूहाय विशेषानुमतिः दत्ता। शरदपवार- समूहेन अधुना नूतननिर्वाचन- चिह्नस्य प्रस्तावः निर्वाचन- आयोगाय प्रेषयितव्यः भविष्यति। राकांपा दलस्य परिणामस्य बहुदिनानां प्रतीक्षा आसीत्। निर्वाचन-आयोगस्य श्रवण-समये (सुनवाई में) राकांपा अध्यक्षः शरदपवारः स्वयं भागं गृहीतवान् आसीत्। एतदतिरिक्तं तस्य समूहस्य वरिष्ठनेतारः अपि अस्मिन् श्रवणे (सुनवाई में) उपस्थिताः आसन्। निर्वाचन- आयोगः शिवसेनायाः परिणामात् भिन्नं परिणामं दास्यति इति अपेक्षा आसीत्, यतः शिवसेनाप्रमुखः बाला साहेब ठाकरे जीवितः नास्ति, परन्तु राकांपा अध्यक्षः शरदपवारः जीवितः अस्ति। एतदतिरिक्तं सः वास्तविकविचारे उपस्थितः आसीत्। अतः निर्वाचनआयोगस्य किं परिणामः भविष्यति ? अस्मिन् विषये जिज्ञासा आसीत्। परन्तु निर्वाचन- आयोगेन शिवसेना- पक्षविवाद- प्रकरणे यथा परिणामः दत्तः तथैव अस्मिन् काले अपि अभवत्।