निर्वाचन विभाग : – निर्वाचनात् पूर्वं भविष्यति विशेषग्रामसभा , १८ वर्षाणाम् उपरि दिव्याङ्गानाम् तृतीयलिङ्गस्य च कृते जागरूकतायै अभिसन्धि: (एमओयू) हस्ताक्षरितम्
हिमसंस्कृतवार्ता- शिमला।
लोकसभानिर्वाचनात् पूर्वं मतदातॄणां जागरूकतायै विशेषग्रामसभायाः आयोजनं भविष्यति। एतेन सह १८ वर्षाणि पूर्णाकर्तृभ्य: दिव्याङ्गेभ्य: तृतीयलिङ्गेभ्य: च मतदानस्य सूचनाः दीयन्ते। लोकसभानिर्वाचनं दृष्ट्वा निर्वाचनविभागेन एतौ प्रमुखौ निर्णयौ कृत्वा पंचायतीराजविभागेन सह सामाजिकन्यायसशक्तिकरणविभागेन सह ज्ञापनपत्रे हस्ताक्षरं कृत्वा तान् कार्यान्वितुं कृतम् अस्ति।
प्रथम अभिसन्धे: (एमओयू) अन्तर्गतं मतदाता-जागरूकता- अभियानम् प्रतिजनं प्रापयितुं निर्वाचनविभाग: तथा ग्रामीणविकास: पंचायतीराज: विभाग: परस्परसहयोगेन कार्यं करिष्यत:। अस्य अन्तर्गतं ग्रामपञ्चायतस्तरस्य स्वसहायतासमूहानां, युवासमूहानां, समुदाय-आधारित-सङ्घटनानां, महिलामण्डलानां च सहाय्येन स्वीप-समितीनां सङ्घटनं भविष्यति। एतदतिरिक्तं युवाक्लबानां स्वसहायतासमूहानां च मासिकसमागमानां कार्यसूचौ मतदाताजागरूकता समावेशिता भविष्यति। एतत् जनपर्यन्तं प्राप्तुं प्रयत्नाः भविष्यन्ति।
मतदाता जागरूकता कार्यक्रमं अधिकतमं मतदातॄन प्रति नेतुम् अपि विशेषग्रामसभाः अपि आयोजिताः भविष्यन्ति। द्वितीय ज्ञापनपत्रस्य अन्तर्गतं मतदाता जागरूकता अभियाने निर्वाचनविभागः सामाजिकन्यायसशक्तिकरणविभागः च सहकार्यं करिष्यत:। अस्य अन्तर्गतं सामाजिकन्यायसशक्तिकरणविभागः १८ वर्षाणि यावत् आयुः प्राप्तानां दिव्याङ्गानाम् तृतीयलिङ्गनागरिकाणां च सूचीं निर्वाचनविभागाय प्रदास्यति येन सर्वेषां पात्रनागरिकाणां निर्वाचनप्रक्रियायां समावेशः कर्तुं शक्यते। अस्य अतिरिक्तं सामाजिकन्यायसशक्तिकरणविभागः विकलाङ्गैः सह सम्बद्धानां नागरिकसामाजिकसङ्घटनानां अराजकीसंस्थानां च सूचीं निर्वाचनविभागाय प्रदास्यति येन मतदाताजागरूकताप्रचारे उक्तसंस्थाभ्यः सहकार्यं प्राप्तुं शक्यते।
निर्वाचन विभाग : – निर्वाचनात् पूर्वं भविष्यति विशेषग्रामसभा
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग
ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001
संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Leave a comment
Leave a comment