हिमाचले भवननिर्माणस्य दृढ़नियमाः, फरवरीमासे अन्ते कार्यान्विताः भविष्यन्ति
हिमसंस्कृतवार्ता:- शिमला।
हिमाचलप्रदेशे भवननिर्माणे कठोरता स्थापिता। नलिकाभ्य:, उपनदेभ्य: च समुचितं दूरं स्थापयितुं भवननिर्माणस्य नियमाः सर्वकारेण निर्धारिताः सन्ति। नियमेषु अपि एकं प्रावधानम् अस्ति यत् राजस्व- अभिलेखेषु नदी-नालिकानाम् उल्लेखः नास्ति चेदपि नालीतः पञ्चमीटर, उपनदेभ्य: ७ मीटर दूरं च त्यक्त्वा भवनानि निर्मातव्यानि भविष्यन्ति हिमाचले प्राकृतिकविपद: कारणात् भवनानां महती क्षतिः अभवत्। नालिकानाम्, उपनदानां च तटे भवनानि क्षतिग्रस्तानि अभवन्। सर्वकारेण कोटिरूप्यकाणां क्षतिपूर्तिः दातव्या आसीत्। पूर्वं हिमाचलप्रदेशे नालिकाभ्यः त्रिमीटर दूरे, उपनदेभ्य: च पञ्चमीटर दूरे भवननिर्माणस्य प्रावधानम् आसीत्। यत्र यदि राजस्व- अभिलेखेषु नाली-उपनदयो: उल्लेखः नास्ति तर्हि चत्वारविश्व-भूखण्डस्य अग्रे द्वौ मीटरविघ्नं त्यक्तव्यम् आसीत् कुल्लू, मनाली, चम्बा, मण्डी इत्यत्र गृहाणां क्षतिः अभवत् इति सर्वकारस्य समीपं नीतम् अस्ति। तत्र नालिकाभ्यः, उपनदेभ्य: च सम्यक् दूरं न स्थापितं आसीत्। परन्तु सम्प्रति राज्यसर्वकारेण नियमानाम् कार्यान्वयनार्थं जनानां आक्षेपाः परामर्शा: च याचिताः। फरवरीमासस्य अन्ते सर्वकारः एतान् नियमान् कार्यान्वयिष्यति।