हिमाचल मन्त्रिमण्डलम् : हिमाचल प्रदेश मन्त्रिमण्डलस्य विभागेषु पुनः परिवर्तनम्
हिमसंस्कृतवार्ता- शिमला।
हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खो: नेतृत्वे सर्वकारस्य मन्त्रिमण्डलसदस्यानां विभागेषु पुनः एकवारं परिवर्तनं जातम्। लोकनिर्माणमन्त्री विक्रमादित्यसिंहं हिमाचलप्रदेशसर्वकारे नगरविकासविभागस्य दायित्वमपि दत्तम् अस्ति। एतदतिरिक्तं सद्यः एव मन्त्रित्वं प्राप्तस्य राजेशधर्माणी इत्यस्मै तकनीकीशिक्षया सह नगरनियोजनस्य, आवासस्य च विभागः अपि दत्तः अस्ति । तस्मिन् एव काले उपमुख्यमन्त्री मुकेश अग्निहोत्री इत्यस्मै सहकारीविभागः अपि नियुक्तः अस्ति । यादविन्द्रगोमा इत्यस्मै आयुषा, क्रीडाविभागेन च सह विधिविभागस्य दायित्वमपि दत्तम् अस्ति ।
उद्योगमन्त्रिणे हर्षवर्धनचौहानाय अपि नूतनविभाग:
अधुना हिमाचलप्रदेशस्य उपमुख्यमन्त्रिण: सहकारविभागेन सह जलशक्तिविभागस्य परिवहनविभागस्य भाषासंस्कृतेः विभागस्य दायित्वं भविष्यति। स्वास्थ्यस्य अतिरिक्तं धनीराम शाण्डिलस्य सामाजिकन्याय एवं सशक्तिकरण एवं सैनिक कल्याण विभागस्य दायित्वं भविष्यति। कृषिमन्त्री चौधरीचन्द्रकुमारस्य विभागेषु परिवर्तनं न जातम्। तस्य कृषिपशुपालनविभागः भविष्यति। हर्षवर्धनचौहान इत्यस्मै उद्योगसंसदीयकार्याणां सह श्रमरोजगारविभागस्य दायित्वं दत्तम् अस्ति। पूर्वं उद्योगमन्त्रीतः आयुषविभागः निवृत्तः आसीत् ।
रोहितठाकुराय नूतनविभागस्यापि दायित्वम्
अनेन सह जगतसिंहनेगीवर्याय राजस्वं उद्यानं, जनजातीयविकास: एवं जनसमस्या-निवारण-विभागस्यापि दायित्वं प्रदत्तम् । रोहितठाकुर: इत्यस्मै उच्चशिक्षया प्रारम्भिकशिक्षया च सह मुद्रण-लेखन-विभागः प्रदत्तः अस्ति । अनिरुद्धसिंहस्य विभागेषु कोऽपि परिवर्तनं न भवति। पूर्ववत् ग्रामीणविकास: एवं पंचायतीराज: विभाग: भविष्यति ।
विक्रमादित्यसिंहस्य प्रतिष्ठा वर्धिता
पूर्वं यदा राजेशधर्माणी, यादविन्द्रगोमा च द्वयोः नूतनमन्त्रिणो: विभागाः आवंटिताः आसन् तदा मुख्यमन्त्री रोहितठाकुरस्य, हर्षवर्धनचौहानस्य, विक्रमादित्यसिंहस्य च विभागं निवृत्तवान् आसीत्। तदा मुख्यमन्त्री उक्तवान् आसीत् यत् शीघ्रमेव नूतनविभागानाम् उत्तरदायित्वं तेभ्य: दीयते इति। तस्मिन् समये लोकनिर्माणमन्त्री विक्रमादित्यसिंहस्य अप्रसन्नतायाः वार्ता अपि अग्रे आगच्छति स्म । परन्तु अधुना विक्रमादित्यसिंहस्य पुनः एकवारं बृहत् विभागस्य दायित्वं दत्तम् अस्ति। एतत् विक्रमादित्यसिंहस्य प्रतिष्ठावृद्धिरूपेण दृश्यते।
राजेशधर्माणीवर्यस्य अप्रसन्नतां दूरीकर्तुं प्रयत्न:
राजेशधर्माणी अपि केवलं तकनीकीशिक्षां इति दायित्वं प्राप्य प्रसन्न: नासीत् । अधुना तस्मै बृहत्विभागद्वयस्य उत्तरदायित्वं दत्त्वा तस्य अप्रसन्नतां समाप्त्यर्थं प्रयासः कृतः अस्ति। अवधेयं वर्तते यत् हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः सामान्यप्रशासनं गृहनियोजनेन च सह अन्ये सर्वे विभागाः भविष्यन्ति, येषां आवंटनं न कृतम् अस्ति। मुख्यविभागानाम् अतिरिक्तं मुख्यमन्त्रिणा अद्यापि ऊर्जा, वनं, खाद्य-नागरिक-आपूर्तिः इत्यादयः विभागाः स्वस्य पार्श्वे एव स्थापिताः सन्ति ।