मण्ड्यां संस्कृतिसदने संस्कृतशिक्षकाः व्यावहारिकसंस्कृतस्य विविधपक्षेषु प्रशिक्षणं गृहीतवन्तः
हिमसंस्कृतवार्ता- मण्डी।
विद्यालयेषु विविधविषयेषु गुणवत्तां आनेतुं शिक्षाविभागः सर्वेषु जनपदेषु प्रशिक्षणकार्यक्रमानाम् आयोजनं कुर्वन् अस्ति । एवमेव मण्डीजनपदस्य संस्कृत-शिक्षकाणां प्रशिक्षण- कार्यशाला मण्ड्यां संस्कृतिसदने प्रचलति। इयं प्रशिक्षणकार्यशाला ३० जनवरीतः फेब्रुवरी ३ दिनाङ्कपर्यन्तं आयोजिता अस्ति, यस्या: आरम्भः प्रतिदिनं प्रातःकाले संस्कृतभाषाया: प्रार्थनासभया भवति।एतेन सह शिक्षकाः सर्वेषु विद्यालयेषु सप्ताहे दिनद्वयं संस्कृतभाषायां प्रार्थनासभां कर्तुं प्रतिज्ञां कृतवन्तः। अस्मिन् अवसरे संस्कृतभाषायाः चतुर्णां कौशलानाम् चर्चां कृत्वा विद्यालये संस्कृतमाध्यमेन छात्राणां शिक्षणं, छात्राणां मध्ये संस्कृतभाषायां वार्तालापस्य सामर्थ्यस्य निर्माणे च बलं दत्तम्। अस्मिन् अवसरे हिमाचलराजकीयसंस्कृतशिक्षकपरिषदः प्रदेशाध्यक्षः डॉ. मनोजशैलः अवदत् यत् विद्यालयेषु संस्कृतस्य दिशा दशा च संस्कृतशिक्षकाणां उपरि निर्भरं भवति। व्यवहारं विना कोऽपि कार्यम् नास्ति, अतः संस्कृतभाषायां वक्तुं कौशलं प्रति शिक्षकाः यथा यथा अधिकं ध्यानं ददति तथा तथा संस्कृतस्य विस्तारः भविष्यति अस्मिन् अवसरे डॉ. सेवकराम शर्मा उक्तवान् यत् अस्माभिः छात्रान् संस्कृतं वक्तुं प्रेरणीया: तस्य च आरम्भः शिक्षकैः स्वयमेव कर्तव्यं भविष्यति। संस्कृत- कार्यशालायां प्रशिक्षकरूपेण डॉ. मनोहर: अनमोल:, नरेन्द्रकुमार:, हंसराज सांख्यान:, डॉ. सेवकराम: एवं डॉ. मनोजकुमारशैल: प्रशिक्षणं कारयन्ति। तत्र संस्कृतस्य प्रायोगिकं व्यवहारस्य दृष्ट्या संस्कृत-शिक्षकै: विविध प्रयोगात्मकानां प्रदर्शिनी पत्राणां निर्माणमपि कृतम्।