हिमाचल वार्ता- हिमाचले मण्डी- ऊना- हमीरपुरसहितं नव भारतीयपुलिससेवाया: २५ हिमाचलपुलिससेवाया: अधिकारीणां स्थानांतरणम्
हिमसंस्कृतवार्ता- शिमला।
लोकसभानिर्वाचनात् पूर्वं हिमाचलप्रदेशसर्वकारेण मण्डी- ऊना- हमीरपुरजनपदानां पुलिसाधीक्षकाणां सहितं नव भारतीयपुलिससेवाया: (आईपीएस) २५ हिमाचलपुलिससेवाया: (एचपीएस) अधिकारिणः स्थानान्तरिताः सन्ति। गृहविभागेन बुधवासरे प्रातःकाले स्वस्य अधिसूचना प्रसारिता। भारतीयपुलिससेवाया: (आईपीएस) अधिकारिषु एसपी क्राइम पदम चन्द: एसपी- हमीरपुरम्, समादेशक: (कमाण्डेन्ट) ५ आईआरबीएन बस्सी जिलाबिलासपुरम् राकेश सिंह: एसपी ऊना इति नियुक्त: अस्ति। एतद् अतिरिक्तं महानिरीक्षकपुलिस: (आईजीपी) विमल गुप्ता आईजी राज्यसतर्कता एवं भ्रष्टाचारविरोधी ब्यूरो, डीआईजी जी. शिवकुमार: डीआईजी मंडी, डीआईजी सौम्या साम्बसिवन प्रधानाचार्या पुलिसप्रशिक्षणकेन्द्रम् (पीटीसी) डरोहे इत्यत्र नियुक्ति: प्रदत्ता। अर्जितसेन ठाकुरः एसपी ऊना आसीत्, सः एसपी एसडीआरएफ जुन्गायां प्रेषितः अस्ति, एसपी हमीरपुरं डॉ. आकृतिः समादेशिका आईआरबीएन वनगढ़ं प्रेषिता अस्ति। डॉ. मोनिका, समादेशिका प्रथम एचपीएपी जुन्गात: षष्ठी भारतीयपुलिसरिजर्ववाहिनी (6th IRBN) धौला कुआं अत्र नियुक्ता अस्ति।
एकस्मिन् स्थाने त्रीणि वर्षाणि यावत् सेवां कुर्वन्त: हिमाचलपुलिससेवाया: अधिकारिण: अपि स्थानान्तरिता: सन्ति।