हिमाचले ऋतुपरिवर्तनं अष्टसु जनपदेषु द्विदिनं यावत् प्रचण्डवृष्टेः हिमपातस्य च नारङ्गवर्णीयसचेतना
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशस्य समतल-मध्य-उच्चपर्वतक्षेत्रेषु वातावरणे परिवर्तनम् अभवत्। ऋतुविज्ञानकेन्द्रशिमला इत्यस्य अनुसारं गतरात्रौ १:०० वादनानन्तरं राज्ये नूतनः पाश्चात्यविकारः सक्रियः भविता। अस्य प्रभावस्य कारणात् जनवरीमासे ३१ दिनाङ्कतः १ फरवरी पर्यन्तम् मध्य-उच्चपर्वतीय-जनपदेषु चम्बा, कुल्लू, मण्डी, शिमला (शिमलानगरं, परिसरेषु च), काङ्गड़ा, लाहौलस्पीति:, किन्नौरं, सिरमौरं इत्येतेषाम् अनेकभागेषु प्रचण्डवर्षा-हिमपातस्य नारङ्ग-सचेतना प्रसारिता। समतलक्षेत्रेषु, निम्नभूमिषु च वर्षा भविष्यति इति पूर्वानुमानम् अस्ति। एतदतिरिक्तं बहुषु समतलक्षेत्रेषु वज्रपातस्य, विद्युत्प्रकोपस्य च सचेतना अपि निर्गता अस्ति। परन्तु एकं वा द्वयं वा उच्चपर्वतस्थानौ विहाय फरवरीमासस्य २ दिनाङ्के वातावरणं स्वच्छं एव भविष्यति इति अपेक्षा अस्ति। परन्तु, द्वितीयः पाश्चात्यः उपद्रवः फरवरीमासस्य ३ दिनाङ्के सक्रियः भवितुम् अर्हति। तस्य प्रभावात् राज्यस्य अनेकेषु भागेषु फरवरीमासस्य चतुर्थदिनपर्यन्तं वर्षा, हिमपातः च भविष्यति इति अपेक्षा अस्ति। ५ फरवरी दिनाङ्के उच्चपर्वतेषु एकस्मिन् वा द्वयोः वा स्थानेषु वर्षा, हिमपातः च भवितुम् अर्हति।
चम्बाया: भरमौरं पाङ्गी, लक्कड़मण्डी इत्यत्र च हिमपातः
शिमलाकेन्द्रस्य ऋतुवैज्ञानिक: संदीपशर्मा इत्यनेन उक्तं यत् अस्मिन् काले औसतम् अधिकतमं तापमानं सामान्यतः न्यूनं भवितुं शक्यते। यद्यपि निम्नपर्वतभागेषु न्यूनतमं तापमानं सामान्यं भविष्यति तथापि मध्यभागेषु उच्चतरपर्वतेषु च सामान्यतः न्यूनं भविष्यति इति अपेक्षा अस्ति सः अवदत् यत् जनवरीमासे राज्ये न्यूनतया शतप्रतिशतम् वर्षा, हिमपातः च अभवत्। अपरपक्षे ऋतुविभागस्य सचेतनाया: मध्ये मंगलवासरे अपराह्ने चम्बाजनपदस्य भरमौरं, पाङ्गी, लक्कड़मण्डी, दानकुण्डम् इत्यत्र हिमपातः आरब्धः। यत्र, बनीखेते चुराहे च लघुवृष्टिः अभवत्। हिमपातवृष्ट्या च जनपदे शीततरङ्गः वर्धितः अस्ति।
स्थानीयजनानाम् पर्यटकानां च कृते महत्त्वपूर्णः परामर्श:
> ऋतुसम्बद्धं यत्किमपि यातायातपरामर्शं निर्गतं तत् अनुसरणं कुर्वन्तु।
> सम्बन्धितविभागैः निर्गतपरामर्शानां मार्गदर्शिकानां च अनुसरणं कुर्वन्तु।
> गन्तव्यस्थानं प्रति गमनात् पूर्वं स्वमार्गे यातायातस्य निरीक्षणं कुर्वन्तु।
> हिमपातसंवेदनशीलक्षेत्रेषु न गच्छन्तु।
न्यूनतापमानस्य कारणात् पशून् अन्तः एव स्थापयन्तु, तेषां स्थापनार्थं पर्याप्तं व्यवस्थां कुर्वन्तु।
> न्यूनतापमानस्य सति पशूनां कृते कृत्रिमप्रकाशस्य, तापनस्य च पर्याप्तं व्यवस्थां कुर्वन्तु।