मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः – एफसीए, एफआरए तथा उपहारपत्राणां समयेन समाधानं कुर्वन्तु अधिकारिण:
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
मुख्यमन्त्री प्रशासनिकसचिवेभ्य: विभागप्रमुखानाम् अधिकारिभ्य: च निर्देशं दत्तवान् यत् ते विधायकैः उत्थापितानां समस्यानां, उपालम्भानां च समाधानं कर्तुं कस्यापि प्रकारस्य शिथिलतां न दर्शयन्तु, तेषां बहुमूल्याय परामर्शाय च यथायोग्यं प्राधान्यं ददतु। विधायकैः दत्तानां योजनानां विस्तृतपरियोजनाप्रतिवेदनस्य निर्माणे विलम्बं न्यूनीकर्तुं सः अधिकारिणः एफसीए, एफआरए, गिफ्टडीड इत्यादीनाम् औपचारिकतानां समये समाधानं कर्तुं निर्देशं दत्तवान्। सः अवदत् यत् सम्बन्धितविभागैः उपायुक्तेन च प्रतिमासं स्वस्तरस्य प्राथमिकतानां समीक्षा करणीया, तस्य प्रतिवेदनं च सर्वकाराय प्रेषयितव्यम्।