मुख्यमंत्री सुखविन्दरसिंहसुक्खुः- ई-टैक्सी एतदर्थं पटलं (पोर्टल) सज्जीकृत्य पञ्जीकरणं आरब्धम्
हिमसंस्कृतवार्ता:- शिमला।
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्यसर्वकारः जनहिताय निश्छलतया कार्यं कुर्वन् अस्ति, यत्र महिलाभि:, युवभि:, कृषकै:, कर्मचारिभिश्च सहितं समाजस्य सर्वेषां वर्गानां यथायोग्यं सम्मानं प्राप्यते। योजनानां, कार्यक्रमानां च लाभं अन्तिमव्यक्तिपर्यन्तं नेतुम् उद्दिश्य वर्तमानसर्वकारः परम्परातः पृथक् कार्यं कुर्वन् अस्ति इति सः अवदत्। विगत एकवर्षे सर्वकारेण तिस्र: प्रतिज्ञा: पूर्णा: कृता: सन्ति। पुरातनवृत्तियोजना प्रथमे एव मन्त्रिमण्डलसत्रे कार्यान्विता आसीत्। रोजगारसृजनस्य दृष्ट्या ६८० कोटिरूप्यकाणां राजीवगान्धी स्वरोजगारप्रारम्भयोजनायाः प्रथमचरणस्य ई-टैक्सीयोजना आरब्धा अस्ति। अस्याः योजनायाः अन्तर्गतं राज्यसर्वकारः ई-टैक्सी-क्रयणे यूनां कृते ५० प्रतिशतं अनुदानं प्रदाति। ई-टैक्सी कार्बन- उत्सर्जनस्य न्यूनीकरणं करिष्यति तथा च यूनां कृते नियत-आयः प्रदातुं सर्वेषु सर्वकारीयकार्यालयेषु अनुबन्ध- आधारेण ई-टैक्सी-यानानां संचालनं भविष्यति। एतदर्थं पटलं (पोर्टल) सज्जीकृत्य पञ्जीकरणं प्रारब्धम् अस्ति।
मुख्यमन्त्री उक्तवान् यत् मनरेगाकार्यकर्तृॄणां दैनिकवेतनं २१२ रुप्यकात् २४० रुप्यकाणि यावत् वर्धितम्। राज्यसर्वकारेण ४००० अनाथबालानां ‘राज्यस्य बालकाः’ इति दत्तकग्रहणं कृतम् अस्ति। तेषां कल्याणाय कानूनम् निर्माय मुख्यमन्त्री सुखाश्रयकोषस्य स्थापनां कृत्वा मुख्यमन्त्री सुखाश्रययोजना आरब्धा। कृषकाणां आयवर्धनार्थं दुग्धस्य क्रयमूल्यं ६ रुप्यकाणि वर्धितम् अस्ति। गतमानसूनकाले राज्यस्य इतिहासे बृहत्तमा आपदा अभवत् इति उक्तवान्। केन्द्रसर्वकारात् विशेषाश्रयसंकुलं न प्राप्य अपि राज्यसर्वकारेण सीमितसम्पदा सह प्रभावितजनानाम् कृते ४५०० कोटिरूप्यकाणां विशेषश्रायसंकुलस्य प्रावधानं कृतम्। पूर्णतया क्षतिग्रस्तस्य गृहस्य क्षतिपूर्तिः सार्धपञ्चगुणं वर्धयित्वा १.३० लक्षरूप्यकात् ७ लक्षरूप्यकाणि यावत् अभवत्।