मनसः स्वरूपम्- मन एव मनुष्याणां कारणं बन्धमोक्षयोः इत्युक्तिः वर्तते । अर्थात् मनसः कारणतो हि मनुष्यः सुखी, दुःखी वा भवति, बन्धनं मुक्तिं वा प्राप्नुयात् । अस्य स्वरूपं कीदृशं स्यादिति अत्र किञ्चिद् विचारयाम ।
योगिभिः मनसः साक्षात्कारं कुर्वद्भिः स्वानुभवे कथ्यते यत्, अस्यानुभवं प्रत्येकं योगिनः कर्तुं प्रभवेयुरिति । मनसो नैजस्वरूपं प्रकाशबिन्दूनां समाहारवदस्ति । यथा भ्राजमानः प्रकाशबिन्दुः असकृत् प्रकटीभूय पुनः तिरोहितो भवति । अयं क्रमः खद्योतप्रकाशः इव वारम्वारं प्रवर्तते । सात्त्विककर्मणः सम्पादनसमये इदं मनः शान्तं, चन्द्रबिम्बवत् सौम्यवर्णीयं भवति । भयङ्कर-क्रूर-घोरादिकर्मणः च सम्पादनसमये भयावहाः, धूम्रमिश्रित-रक्तवर्णीयाः च किरणाः मनसो निस्सरन्ति । एवं भयं, तामसिकप्रभावं सम्प्राप्य इदं मनः सङ्कुचितं, मलिनं, तेजोविहीनं, निस्साराभायुतं च स्वरूपं प्रदर्शयति । तेषां किरणानां साक्षात्कारः तत्तदङ्गद्वारा सम्भवति, यत् मनसः एतादृशेन कर्मणा प्रभावितं स्यात् । इतोऽपि स्पष्टतार्थं, सात्त्विकं मनः शुभ्रेण चन्द्रबिम्बेन समानम्, सौम्यप्रभायुतं, शान्तं, स्थिरं, विषयेभ्यो विरागयुक्तं तथा गम्भीरं भवति । राजसिकं मनः शुक्रनक्षत्रवत् भ्राजमानं, नीलाभायुक्तं, चपलं, तीव्रगतियुक्तम्, इन्द्रियाणां कर्मार्थं प्रेरकं, ज्ञानसम्पादनार्थम् उद्योगरतं, विद्युद्वत् क्षिप्रं, शक्तिमत्, ज्ञान-विज्ञानयोः ग्रहणसमये अतीव सावधानं च भवति । एवमेव तामसिकं मनः कृष्णधूम्रवत्, दीर्घसूत्रि, देहस्य निष्क्रियकं, सारहीनं, मूर्च्छित-भावनायुक्तं, ज्ञानकर्मादिषु प्रवृत्तिरहितम्, अकर्मण्यञ्च भवतीति एवं मनसो विविधं स्वरूपं कथ्यते इति, शुभम् ।
—
नारदः
।