HPPSC Shimla – देवराजशर्मा हिमाचलप्रदेशलोकसेवा- आयोगस्य सदस्य: नियुक्त:
राज्यपालेन कारितं शपथग्रहणम्
हिमसंस्कृतवार्ता- शिमला।
राज्यपाल: शिवप्रतापशुक्ल: गतदिवसे राजभवने आयोजिते समारोहे हिमाचलप्रदेश-लोकसेवा-आयोगस्य सदस्यत्वेन देवराजशर्मणे पदस्य, गोपनीयतायाश्च शपथग्रहणम् कारितवान्। अस्मिन्नवसरे लेडीगवर्नर: जानकी शुक्ला, मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अपि उपस्थित: आसीत्। शपथग्रहणस्य कार्यविधि: राज्यपालस्य सचिवेन राजेशशर्मणा कृता।
मुख्यमंत्रिण: मुख्यपरामर्शक: (मीडिया) नरेशचौहान:, हिमाचल लोकसेवा- आयोगस्य अध्यक्ष: रामेश्वरसिंहठाकुर:, मानवाधिकार- आयोगस्य अध्यक्ष: पी. एस. राणा, राज्यस्य मुख्यसूचनायुक्त: आर. डी. धीमान:, नगरनिगमशिमलाया: महापौर:, लोकसेवा- आयोगस्य सदस्या:, हिमाचलप्रदेशविधानसभायाः पूर्वसभापतिः गंगुराममुसाफिरः, राज्यसर्वकारस्य वरिष्ठाधिकारिणः, देवराजशर्मण:, परिवारजनाः इत्यादयः गणमान्यजनाः अपि उपस्थिताः आसन्।