शिमला – नव भारतीयपुलिससेवाया: (IPS) तथा हिमाचलपुलिससेवाया: (HPS) अधिकारिणां स्थानान्तरण- नियुक्यादेशा: निर्गता:
हिमसंस्कृतवार्ता- शिमला।
हिमाचलप्रदेशसर्वकारेण सिविलसेवापरिषद: अनुशंसया नव (०९) भारतीयपुलिससेवाया: (IPS), हिमाचलपुलिससेवाया: (HPS) अधिकारिणां च स्थानान्तरण- नियुक्यादेशा: निर्गता: । डीआईजीरूपेण पदोन्नतिं प्राप्य पदस्थापनस्य प्रतीक्षां कुर्वन् IPS अधिकारी मोहित चावला डीआईजी साइबर क्राइम, शिमला इति पदं प्राप्तवान्। एवमेव इल्मा अफरोज पुलिसाधीक्षक जिला बद्दी नियुक्ता। पदस्थापनस्य प्रतीक्षां कुर्वन् आईपीएस अधिकारी सचिन हिरेमथ एसएडीपीओ बड़सरम् हमीरपुरम्, तिरुमलाराजू एसडी वर्मा एसडीपीओ रामपुरम्, शिवानी मेहता अतिरिक्तपुलिसाधीक्षक-चम्बा तथा अदितिसिंह एसडीपीओ पांवटा साहब इति नियुक्ता: सन्ति। इतरथा एचपीएस अधिकारी लालमन:, विनोद कुमार:-2, महेन्द्रठाकुर: इत्येतेभ्य: त्वरितप्रभावेन पुलिसमुख्यालये शिमलायाम् उपस्थितिं दातुं कथितमस्ति। एतेभ्य: अधिकारिभ्य: नियुक्त्यादेशाः शीघ्रमेव निर्गताः भविष्यन्ति। अस्मिन् विषये गृहविभागेन अधिसूचना प्रसारिता अस्ति।