गणतंत्रदिवसः 2024 : शिमलायां राज्यपालः त्रिवर्णध्वजं उत्तोलितवान्
प्रत्येकस्य जनपदस्य संस्कृते: दर्शनम् अभवत्
हिमसंस्कृतवार्ता- शिमला।
शुक्रवासरे सम्पूर्णे हिमाचलप्रदेशे ७५तमः गणतन्त्रदिवसः आनन्देन उत्साहेन च आचरितः। राज्यपालः शिवप्रतापशुक्लः राजधानीशिमलानगरस्य ऐतिहासिके रिजस्थले आयोजिते राज्यस्तरीयकार्यक्रमे राष्ट्रध्वजं उत्तोलनं कृतवान् तत: पथसंचलनस्य (परेडस्य) निरीक्षणं कृत्वा २२-जम्मू-कश्मीरराइफलस्य परेडसेनापतिलेफ्टिनेंट करणगोगना इत्यस्य नेतृत्वे आकर्षकमार्चपास्ट इति स्वीकृतवान् । अस्मिन्नवसरे मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, विपक्षनेता जयरामठाकुर: एवं अन्ये मान्यो मान्या: उपस्थिता आसन् ।
मार्चपास्ट इत्यस्मिन् सेना, भारत-तिब्बत-सीमापुलिस, हिमाचलप्रदेश सशस्त्रपुलिसबलं, हरियाणापुलिस:, राज्यपुलिस:, गृहरक्षक:, अग्निशामकसेवा तथा हिमाचलप्रदेशडाकसेवा, आपदा- प्रबन्धनं, पूर्वसैनिकाः, राष्ट्रियकैडेट कोर (एनसीसी), राष्ट्रीयसेवायोजना, भारतस्काउट एवं गाइड्स इत्येतेषां दलै: भागं स्वीकृतम्। राज्यपालः डिजिटल-प्रौद्योगिकी-शासन-विभागेन आयोजितायाः एचपी-डिजिटल-इग्निशन-प्रतियोगितायाः विजेतृभ्यः अपि पुरस्कारं प्रदत्तवान् । अस्मिन् अवसरे विभिन्नविभागानाम् विकासात्मकक्रियाकलापानाम् आकर्षकचित्रं अपि प्रस्तुतम् ।
समारोहे १६ चित्राणि अपि बहिः आनीतानि आसन् । उद्यानविभागस्य तालिकायां प्रथमपुरस्काररूपेण १०,००० रुप्यकाणि प्रदत्तानि।मुख्यमन्त्रिण: सन्निध्ये राज्यपालेन आयुषमानभारतप्रधानमन्त्री जन आरोग्ययोजनाया: अन्तर्गतं सर्वोत्तमप्रदर्शनं कुर्वतां स्वास्थ्यसंस्थानेभ्य: प्रशंसापत्रं प्रदत्तम्।
जनपद: शिमला, सिरमौरं, राजकीय-वरिष्ठ-माध्यमिक-विद्यालय: रोहड़ू, बाल-आश्रम टुटीकण्डी इत्यस्य अतिरिक्तं हरियाणा-प्रदेशस्य उत्तरक्षेत्रसांस्कृतिककेन्द्र द्वारा आकर्षका: सांस्कृतिका: कार्यक्रमा: प्रस्तूता:। पुलिस-समूहस्य मनमोहक-प्रस्तुतिः अपि आकर्षणस्य केन्द्रम् आसीत् । इन्दिरागांधी-आयुर्विज्ञानमहाविद्यालय: शिमला, डॉ. राजेन्द्रप्रसादराजकीय-चिकित्सामहाविद्यालय:, टांडा एवं पंडितजवाहरलालनेहरू: चिकित्सामहाविद्यालय: चम्बा इत्येतेभ्य: राज्यस्तरीयपुरस्कारा: प्रददन् ।
अस्मिन्न्वसरे राज्यपालः मुख्यमन्त्री च पुत्रीं रक्षय पुत्रीं पाठय अर्थात्’बेटी बचाओ-बेटी पढाओ’ इति सन्देशं दत्त्वा वातगोला: अपि मुक्तवन्त:।
इन्दिरागांधी-आयुर्विज्ञानमहाविद्यालयस्य (IGMC) वरिष्ठचिकित्साधीक्षक: सम्मानित:
हिमसंस्कृतवार्ता- शिमला।
आयुष्मान-भारत-प्रधानमन्त्री-जन-आरोग्य- योजनाया: अन्तर्गतं राज्ये उत्तमा: स्वास्थ्यसुविधा: प्रदातुं राज्यपाल: शिवप्रतापशुक्ल: शुक्रवासरे ऐतिहासिके रिजस्थले आयोजिते को गणतंत्रदिवसस्य समारोहे इन्दिरागांधी-आयुर्विज्ञानमहाविद्यालयस्य (IGMC) वरिष्ठचिकित्साधीक्षकं डॉ. राहुल राव़ प्रशंसापत्रेण पुरस्कृतवान् ।