आस्था-एक्स्प्रेस-रेलयानं एकसप्ताहं यावत् स्थगितम्, अयोध्यायां भक्तानां जनसमूहं दृष्ट्वा रेलविभागस्य निर्णयः
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
२९ जनवरी दिनाङ्के हिमाचलप्रदेशात् अयोध्यां प्रति रामभक्तानाम् आस्था-एक्स्प्रेसरेलयानं एकसप्ताहं यावत् स्थगितम्। इयं सूचना श्रीराममंदिरदर्शनयोजनाया: संयोजक: संजीवकटवाल: अददत्। अयोध्याधामे रामभक्तानां विशालः जनसमूहः समागतः इति सः अवदत्। एतादृशी परिस्थितौ रेलविभागेन सम्प्रति भक्तानां सुविधायै आस्था-एक्स्प्रेस-रेलयानं एकसप्ताहं यावत् स्थगितम्। २९ जनवरी दिनाङ्के अयोध्यानगरं गच्छत् आस्था एक्स्प्रेस् रेलयानं अधुना फेब्रुवरीमासे प्रचलति। अस्य कृते नूतना तिथिः रेलविभागेन निर्गता भविष्यति। सः अवदत् यत् एतद् सम्पूर्णं रेलयानं रामभक्तानां कृते आरक्षितम् अस्ति। सर्वेषां पञ्जीकरणं कृतम्। एतादृशे सति रामभक्ताः स्थगितस्य रेलयानस्य कारणेन किञ्चित् विलम्बं प्राप्नुयुः, परन्तु एतद् रेलयानं केवलं तेषां सुविधायै स्थगितम् अस्ति, येन तेभ्य: रामलल्लायाः दर्शनं भवितुं किमपि समस्या न भवेत्। संजीवकटवालः अवदत् यत् रेलविभागेन अस्य रेलयानस्य नूतना तिथिः दत्ता एव तत्क्षणमेव भक्तानां सूचना भविष्यति।