धर्मशाला – ७७४३ पौंगजलबन्धः प्रभाविताः जनाः ६२ वर्षाणाम् अनन्तरम् अपि भूमिं न प्राप्तवन्तः।
हिमसंस्कृतवार्ता:- धर्मशाला।
पौंग-जलबन्ध-प्रभाविताः ७७४३ परिवाराः ६२ वर्षाणाम् अनन्तरम् अपि भूमिं प्राप्तुं न शक्तवन्तः। अद्यापि एतानि कुटुम्बानि द्वारं द्वारं बाधानां प्रत्यक्षीकरणं कर्तुं बाध्यन्ते। अस्मिन् विषये गतदिवसे उपायुक्तकार्यालयस्य परिसरे काङ्गड़ा-सांसद: किशनकपूरस्य अध्यक्षतायां सभा आयोजिता। पौंगविस्थापितानां जनानाम् आश्रयार्थं पुनर्वासार्थं च आयोजितायाः समीक्षासभायाः अध्यक्षतां कुर्वन् कपूरः अवदत् यत् राजस्थाने अद्यापि भूमिः न प्रदत्ता येषां पौंगविस्थापितानां जनानां कृते एकसमयनिवासद्वारा समाधानं प्राप्तुं योजना अपि सज्जीभवितव्या। बीबीएमबी प्रशासनाय जलसंसाधनमन्त्रालयस्य विद्युत्मन्त्रालयस्य च सचिवैः सह संयुक्तसमागमं कृत्वा पोङ्गविस्थापितानां जनानां लम्बितप्रकरणानाम् निराकरणाय निर्देशः दत्तः। कपूरः अवदत् यत् काङ्गड़ामण्डलस्य विभिन्नेषु उपमण्डलेषु २०७२२ परिवाराः पौंगजलबन्धस्य निर्माणेन प्रभाविताः अभवन्। एतेषु १६,३५२ जनानां कृते भूमिप्रदानस्य प्रक्रिया आरब्धा, राजस्थानस्य ८६०९ प्रभावितपरिवारेभ्यः कृषियोग्यभूमिः प्रदत्ता। ७७४३ प्रभावितपरिवारेभ्यः भूमिप्रदानस्य प्रकरणानि अद्यापि लम्बितानि सन्ति। एतेषां प्रकरणानाम् शीघ्रं निस्तारणार्थं समुचितपदं ग्रहीतुं तेन निर्देशाः दत्ताः। पोङ्गविस्थापितानां लम्बितप्रकरणानाम् समये निस्तारणार्थं राजस्थानस्य राजस्वाधिकारिभिः सह प्रतिमासं सभाः भवेयुः इति सांसदः अवदत्। आयुक्त आश्रय-पुनर्वास फतेहपुरद्वारा निर्मिताः अभिलेखाः अपि राजस्थानसर्वकाराय उपलभ्यन्ते।
उपायुक्त डॉ. निपुणजिन्दलः अवदत् यत् पौंगजलबन्ध प्रभावितानां जनानां राजस्वस्य अभिलेखः सज्जीकृतः अस्ति। विस्थापितानां जनानां पुनर्वासार्थं प्रशासनेन प्रभावी पदानि अपि क्रियन्ते। पौंगजलबन्धनिष्कासितानां सञ्चिका उन्नयनार्थं बस्तीकार्यालयं प्रेषिता अस्ति।