एचपीटीयू- हमीरपुरम् :- हिमाचल- तकनीकी- विश्वविद्यालये द्वयुपाधिकार्यक्रमयो: अनुमोदनम्,
कार्यकारी-परिषद: गोष्ठ्यां निर्णय:
हिमसंस्कृतवार्ता:- हमीरपुरम्।
हिमाचलप्रदेश- प्राविधिक- विश्वविद्यालय: हमीरपुरम् इत्यत्र द्वयुपाधि-कार्यक्रमा: आरप्स्यन्ते। अस्मात् सत्रात् आरभ्य छात्राणां कृते द्विगुण-उपाध्या: सुविधा भविष्यति। गतदिवसे कुलपते: प्रो. शशिकुमारधीमत: अध्यक्षतायां आयोजिते शैक्षणिकपरिषदः ३३ तमे सत्रे राष्ट्रियशिक्षानीति- २०२० अन्तर्गतं विश्वविद्यालये द्वयुपाधि- प्रारम्भस्य प्रस्तावः अनुमोदितः। अनुमोदनानन्तरं छात्राः विश्वविद्यालयसहिताः सम्बन्धितशैक्षिकसंस्थासु विज्ञानस्नातक- व्यापारप्रशासनस्नातकोत्तर (बीएस-एमबीए) तथा विज्ञानस्नातक- स्नातकोत्तरपदवी (बीएस-एमएस) च प्राप्तुं शक्नुवन्ति। शैक्षणिकपरिषद् जवाहरलालनेहरू अभियांत्रिकी महाविद्यालयसुन्दरनगरे, द्रवीय- अभियांत्रिकी- महाविद्यालये बन्दलाबिलासपुरे च शोधकेन्द्राणाम् आरम्भस्य अनुमोदनम् अकरोत्।
अधुना अभियांत्रिकी महाविद्यालयद्वये पीएचडी अध्ययनं आरभ्यते। एतस्य विषये परिषदः समितिं निर्माय नियमनिर्णयस्य निर्देशं दत्तवती अस्ति। अभियांत्रिकीक्षेत्रे शोधप्रवर्धनार्थं द्वयोः महाविद्यालययोः पीएचडीकार्यक्रमाः आरभ्यन्ते इति कुलपतिः अवदत्।