मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – मुख्यमंत्रिणा सह अमिलन् चलचित्र अभिनेतारः नानापाटेकर: राजपालयादव:, निर्देशक: अनिल शर्मा च
हिमसंस्कृतवार्ता:- शिमला।
प्रसिद्धाः अभिनेतारः नाना पाटेकरः राजपालयादवः, निर्माता अनिलशर्मा इत्यादयः जर्नी चलचित्रस्य एककसदस्याः गतदिवसे सायं मुख्यमंत्रिण: आवासे ओकोवर- इत्यत्र मुख्यमन्त्रिणा सह शिष्टाचारमेलनं कृतवन्तः। मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः हिमाचले चलचित्रनिर्माणाय प्रोत्साहनं ददाति। हिमाचलः समृद्धसंस्कृतेः, इतिहासस्य, चित्रमयस्थानानां च कृते प्रसिद्धः अस्ति। हिमाचलस्य चलच्चित्रनिर्माणस्य प्राधान्यगन्तव्यस्थानरूपेण विकासाय सर्वकारेण व्यापकचलचित्रनीतिः निर्मिता अस्ति। अस्य अन्तर्गतं सूचना-जनसम्पर्कविभागे एकं चलचित्रसुविधाकेन्द्रं स्थापितं भविष्यति यत् एकस्यैव गवाक्षेण कार्यं करिष्यति तथा च एतस्य माध्यमेन चलचित्रनिर्माणसम्बद्धानि सर्वाणि अनुमोदनानि अनुमतिः च त्रिकार्यदिनान्तरे ऑनलाइनप्रक्रियाद्वारा सुनिश्चिताः भविष्यन्ति।
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् चलचित्रनिर्मातृभ्यः उत्तमसुविधानां प्रदानेन सह राज्यसर्वकारः उत्तमानि अधिकविकसितानि च शूटिंग्स्थानानि अपि प्रदास्यति। राज्यसर्वकारः चलचित्र- एककानां कृते राज्यस्य विभिन्नेषु भागेषु स्थितानां विमानपट्टिकानां, हेलीपैड-इत्यस्य च उपयोगं चलच्चित्रस्य बहिः शूटिंग-कृते अपि प्रदास्यति। मुख्यमन्त्री उक्तवान् यत् राज्ये न्यूनातिन्यूनं ५० प्रतिशतं गृहीत- उत्कृष्टचलचित्रेषु वार्षिकचलचित्रपुरस्कारस्य स्थापनायाः अपि विषये सर्वकारः विचारयति। राज्यसर्वकारः चलचित्रमहोत्सवानां, पुरस्काराणाम्, अन्येषां कार्याणां च आयोजनार्थं चलचित्रविकासकोषस्य स्थापनां करिष्यति।