अयोध्यां गत्त्वा शीघ्रमेव रामलल्लाया: दर्शनं करिष्यति मन्त्रिमण्डलम् – मुकेशः अग्निहोत्री
हिमसंस्कृतवार्ताः- कार्यालयीय: प्रतिनिधि:।
उपमुख्यमन्त्री मुकेशः अग्निहोत्री उक्तवान् यत् हिमाचलतः श्रीरामस्य जन्मभूमिं अयोध्याधामं प्रति बसयानं गमिष्यति। अयोध्याधामे रामलल्लाया: दर्शनं कर्तुं हिमाचलभक्तेभ्य: सुविधा भवतु एतदर्थं प्रयास: भविष्यति। भविष्ये एतदर्थं प्रयत्नाः क्रियन्ते। शीघ्रमेव सम्पूर्णं मन्त्रिमण्डलं अयोध्यां गत्वा रामलल्लायाः दर्शनं कृत्वा आशीर्वादं ग्रहीष्यति। असौ अकथयत् यत् अयोध्यायां भव्यं राममन्दिरं निर्मितम् अस्ति। रामलल्ला विराजित: अस्ति, सुखस्य आनन्दस्य विषयः अस्ति। श्रीराममन्दिरस्य कृते ऐतिहासिकं कार्यं तदा अभवत् यदा पूर्वप्रधानमन्त्री राजीवगान्धी प्रधानमन्त्री आसीत् तदा एव तालाः उद्घाटिताः आसन्। सः अवदत् यत् सर्वै: स्वस्वगृहेषु दीपप्रज्ज्वालनं कृतम् एतद् सर्वं सर्वेषां रामं प्रति श्रद्धा वर्तते। ईशपुरस्य शीतलमातामन्दिरस्य प्राणप्रतिष्ठाकार्यक्रमस्य समये अपि उपमुख्यमंत्री उपस्थितः अभवत्। सायंकाले बनोडे़ महादेवमन्दिरं प्रणामं कर्तुमपि गतवान्। राष्ट्रीयसंतबाबाबालजीमहाराजस्य आशीर्वादं ग्रहीतुं राधाकृष्णमन्दिरं कोटलाकलाम् अगच्छत्। उपमुख्यमंत्री अवदत् यत् सर्वेषु मन्दिरेषु सुविधां वर्धयितुम् अपि वयं ध्यानं दद्मः। मुकेश अग्निहोत्री इत्यनेन उक्तं यत् देवभूमे: मन्दिराणां भव्यतायाः, सौन्दर्यीकरणस्य च कार्ययोजनायाः निर्माणे बलं दीयते।