श्रीराममन्दिर-प्रतिष्ठा-अयोध्या – हिमाचले अवकाश:, मुख्यमंत्रिणा सुखविंदरसिंहसुक्खूना श्रीरामस्य जयघोषं कृत्वा कृता घोषणा
हिमसंस्कृतवार्ता- शिमला।
हिमाचलप्रदेशस्य मुख्यमंत्री सुखविन्दरसिंहसुक्खुः रविवासरे शिमलाया: गंजबाजारे राममंदिरं प्राप्तवान्। मुख्यमंत्री श्रीरामस्य जयघोषं कृत्वा श्रीरामं पूजयित्वा मन्दिरे शिरः नत्वा सर्वेषां मङ्गलकामना: अकरोत्। अस्मिन् अवसरे राममन्दिरसभाद्वारा मुख्यमंत्रिण: स्वागतं कृतम्। शनिवासरे मन्दिरे रामायणस्य निरन्तरपाठः आरब्धः अस्ति। मुख्यमंत्री रामायणस्य अखण्डपाठस्य आरम्भे रामचरितमानसस्य अपि पूजां कृतवान्।
श्रीराम: देशस्य संस्कृति: – मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् सोमवासरे प्राण-प्रतिष्ठासमारोहः वर्तते। केन्द्रसर्वकारेण अर्धदिवसस्य अवकाशः घोषितः, परन्तु हिमाचले पूर्णदिवसस्य अवकाशः भविष्यति। मुख्यमंत्री उक्तवान् यत् अहमपि दीपं प्रज्वालयिष्यामि । श्री रामः अस्य देशस्य संस्कृतिः अस्ति। मर्यादा&पुरुषोत्तमस्य रामस्य आदर्शाः सर्वेषां कृते सन्ति। सः अवदत् यत् सुन्दरकाण्डपाठस्य आरम्भस्य अवसरे सः क्षुधार्तोदरः आगतः। मुख्यमंत्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् यदा समयः आगमिष्यति तदा सः अयोध्यां गत्वा भगवान् रामलालस्य दर्शनं करिष्यति।
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् श्रीराम: सर्वेषाम् अस्ति। इतरथा प्राण-प्रतिष्ठासमारोहाय आमन्त्रितः हिमाचलतः एकमात्रः राजनेता विक्रमादित्यसिंहः अयोध्यां प्रति प्रस्थितवान् अस्ति। सः शिमलातः दिल्लीं गतः ततः अयोध्याम् अगच्छत्।
हिमाचले अवकाशस्य घोषणा, मुख्यमन्त्रिणा सामाजिकमाध्यमै: रामस्य महिमा प्रकटिता
प्रत्येकस्मिन् कणे राम: सर्वेषां राम: – मुख्यमंत्री
एतदतिरिक्तं मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अपि सोमवासरे २२ जनवरी दिनाङ्के हिमाचले अवकाशस्य घोषणां कृतवान्। मुख्यमंत्री उक्तवान् यत् हिमाचले अवकाशस्य घोषणा कृता अस्ति येन श्रद्धावन्त: जना: श्री राममन्दिरस्य रामललाया: च प्रतिष्ठासमारोहं द्रष्टुम् अर्हन्ति। एतदेव न, मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अपि दीपप्रज्वलनस्य आह्वानं कृतवान्। असौ अकथयत् यत् श्रीरामस्य आदर्शा: सर्वै: स्वीये जीवने स्वीकर्तव्या:। सः अवदत् यत् भारते रामचरितमानसस्य महत्त्वं सर्वे जानन्ति। राममन्दिरे सुन्दरकाण्डस्य निरन्तरपाठः आरब्धः अस्ति। तस्य दीपप्रज्वलनस्य अवसरे मुख्यमंत्री अत्र प्राप्तवान् आसीत्।
जय श्री राम।।