ऋतुविज्ञानविभाग : – ऊना-काङ्गड़ा शीततरङ्गेण कम्पितौ
चतुर्षु नगरेषु तापमानं शून्यात् अधः प्राप्तम्
हिमसंस्कृतवार्ता -शिमला।
खलु वातावरणे परिवर्तनं न जातम् तथापि राज्यस्य द्वौ जनपदो शीततरङ्गेण कम्पितौ। ऊना-काङ्गड़ा-जनपदयोः शीततरङ्गस्य प्रकोपस्य विषये ऋतुविज्ञानविभागेन व उक्तम्। एतयोः जनपदयोः गत २४ होराभ्यः शीततरङ्गः प्रचलति। एतदतिरिक्तं लाहौल-स्पीति-छनपदस्य कुकुसमेरी-क्षेत्रे हिमशीतता वर्तते । अत्र तापमानं १२.४ डिग्री सेल्सियसपर्यन्तं न्यूनीकृतम् अस्ति । मार्गे जलस्य कटनस्य स्थितिः अस्ति । एतेन सह गृहेभ्यः जलं प्रदातुं नलिका अपि रूढा भवितुं आरब्धा अस्ति । ऋतुविभागेन आगामिषु ४८ होरासु षट् जनपदेषु निहारसचेतना प्रसारिता अस्ति। एतेषु ऊना-हमीरपुर-बिलासपुर- नालागढ-बद्दी-अर्की-कुनिहार-नगरेषु अपि च सिरमौर-जनपदस्य नाहन-पाओन्टा-साहब-नगराभ्यां सह निहार-संभावना प्रकटिता अस्ति । राज्यस्य चतुर्षु नगरेषु तापमानं शून्याङ्कात् अधः स्खलितम् अस्ति तथा च तस्य न्यूनता निरन्तरं भवति। कुकुसमेरी-नगरस्य तापमानं न्यून-१२.४ डिग्री, समधो-क्षेत्रे षट् डिग्री सेल्सियस्, कल्पायां न्यूनतमं २.८ डिग्री, मनाली-नगरे न्यूनतमं ०.७ डिग्री सेल्सियसम् अस्ति । शिमला-धर्मशाला-नगरयोः रात्रौ तापमाने किञ्चित् समता अभवत् ।