मण्डीजनपदस्य त्रिषु शिक्षाखण्डेषु विद्यालयस्य समयसूचौ परिवर्तनम्
हिमसंस्कृतवार्ता:- मण्डी।
जिलादण्डाधिकारी मण्डी अरिन्दम चौधरी मण्डी जनपदस्य केषुचित् समतलक्षेत्रेषु सघनप्रभात- नीहारकारणात् बालकानां स्वास्थ्यसुरक्षां ध्यानं दत्त्वा बल्ह, सलवाहन, औट शिक्षाखण्डस्य सर्वेषां निजी तथा सर्कारीय विद्यालयानां समयसूचीं परिवर्तितवान्। यस्य अन्तर्गतम् एतेषां शिक्षाखण्डानां सर्वे निजी- सर्वकारीय- विद्यालया: प्रातः ९:३० वादनतः अपराह्ण ३:३० वादनपर्यन्तम् उद्घाटिता: भविष्यन्ति। परन्तु आदेशानुसारम् उपर्युक्तविद्यालयानां पिधानकरणसमयः पश्चात् सम्बन्धितेन प्राथमिक-उच्चशिक्षा-उपनिदेशकेन विस्तारयितुं शक्यते। प्राथमिक- उच्चशिक्षा- उपनिदेशकान्, सम्बन्धितक्षेत्रस्य विद्यालयानां प्राचार्यैः च एतेषाम् आदेशानां दृढ़तापूर्वकं पालनं कर्तुं कथितम् अस्ति। एते आदेशाः तत्कालं प्रभावेण प्रवर्तन्ते। ३१ जनवरीपर्यन्तं अथवा अग्रिम- आदेशपर्यन्तं निरन्तरं भविष्यति।