पालमपुरे प्रचलति संस्कृतशिक्षकाणां पञ्चदिवसीयकार्यशाला
हिमाचलप्रदेशशिक्षाविभागेन सर्वेषां विषयाणां गुणवत्तासंवर्धनार्थं कार्यशालानाम् आयोजनं आहिमाचले क्रियते। अस्मिन् विषये सूचयन् काङ्गड़ा जिल्लापरियोजनाधिकारिणी नीना पुन इत्यनया उक्तं यत् प्रथमचरणे काङ्गड़ायाः संस्कृतशिक्षकाणां कृते पञ्चदिवसीयप्रशिक्षणं १७ जनवरीतः २१ दिनाङ्कपर्यन्तं पालमपुरे प्रचलति यस्मिन् थुरलः. पञ्चरुखी पालमपुर, वैजनाथः, चडियारः. काङ्गड़ा खुण्डिया,, नगरोटा वगवां इत्यादीनां शिक्षाखण्डानां वरिष्ठमाध्यमिकविद्यालयानाम् संस्कृतशिक्षकाः भागं गृह्णन्ति। कार्यशालायां प्रशिक्षकेषु मंगलवासरे संजीवशर्मा अवदत् यत् संस्कृतं भाषारूपेण जनसामान्यं गच्छेत् इति संस्कृतशिक्षकाणां बृहत्तमं दायित्वं वर्तते, तत्रैव डॉ.अमनदीपशर्मणा उक्तं यत् छात्राणां मुखे संस्कृतम् आनेतुं सरलसंस्कृतस्य प्रयोगः करणीयः। तेनोक्तं यत् बाल्यकाले यथा बालकः स्वतः अप्रयत्नेन च स्वमातृभाषां भाषते, तस्याः पद्धत्याः पालनं कृत्वा संस्कृताभ्यासस्य आवश्यकता वर्तते, परञ्च तस्मात् पूर्वं संस्कृतशिक्षकैः स्वयं संस्कृताभ्यासस्य पालनं करणीयम्। कार्यशालायां पवनशर्मा नूतनशिक्षानीतौ संस्कृतस्य उपयोगितायाः विषये स्वस्य वक्तव्यं प्रस्तुतवान्, पुनीतशर्मा उच्चमाध्यमिकस्तरे अध्यापनस्य नवीनप्रविधिनां विषये स्वविचारं प्रस्तुतवान् । संस्कृतमाध्यमेन सुसंगठितकार्यशालायाः विषये प्रसन्नतां प्रकटयन् कार्यक्रमस्य जिलासमन्वयिका प्रियङ्का पनियालः अवदत् यत् संस्कृतद्वारा संस्कृतविषयाणां शिक्षणस्य अवधारणा भाषाप्रवर्धनस्य गुणवत्ताप्रवर्धनस्य च नूतनान् आयामान् अवश्यमेव विकसति, येन नवशिक्षानीतेः उदेश्यानि पूर्णानि भवन्ति।
पालमपुरे संस्कृतशिक्षकाणां पञ्चदिवसीयकार्यशाला
![](https://himsanskritam.com/wp-content/uploads/2024/01/पालमपुर-में-संस्कृत-शिक्षकों-का-प्रशिक्षण-860x446.jpg)
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
1 Comment
1 Comment
भवान श्लाघनीय: कार्यम् कुर्वन् अस्ति।
शुभाशया:👍👍👍