शिमलावार्ता- अभिनेता राजपालयादव: शिमलाया: जाखुमंदिरे दर्शनं कृतवान्
हिमसंस्कृतवार्ता:- शिमला।
बॉलीवुड इत्यस्य जर्नी चलचित्रस्य छायाङ्कनं बुधवासरे पर्वतराज्ञां (हिल्स्क्वीन) शिमला इत्यस्य उपत्यकासु अभवत्। चलचित्रस्य दृश्यानि मशोबरायां निर्देशकेन अनिलशर्मा इत्यनेन गृहीतानि। नानापाटेकरः तस्मिन् अभिनयम् अकरोत्। अस्मिन् काले पत्रालयस्य निर्माणं जातम्। नाना पाटेकरस्य दृश्यानि पत्रालयस्य अन्तः बहिश्च गृहीतानि। ततः पूर्वं मंगलवासरे नानापाटेकरः राजपालयादवः च मशोबरानगरे चलचित्रस्य शूटिंगकार्ये भागं गृहीतवन्तौ। बुधवासरे राजपालयादवस्य छायाङ्कनं नासीत्। अतः राजपाल: जाखु हनुमान मन्दिरं प्राप्त। प्रातः ११:०० वादने राजपाल: यादव: जाखुमन्दिरे दर्शनं कृतवान्। तदनन्तरं सः स्वप्रशंसकैः सह स्वस्य छायाचित्रं कृतवान्। राजपालः अर्धघण्टां यावत् जाखुपरिसरे एव स्थितवान्। तदनन्तरं राजपालः नालदेहरां गतवान्।