निराश्रिबालानां दत्तकग्रहणाय अग्रे आगच्छेयु: समाजस्य समृद्धजनाः, मुख्यमन्त्रिणा कृतम् आह्वानम्
हिमसंस्कृतवार्ता- शिमला।
मुख्यमन्त्री तथा हिमाचलप्रदेशबालकल्याणपरिषदः अध्यक्षः सुखविन्दरसिंहसुक्खुः बुधवासरे सायङ्कालस्य मध्ये स्वीये आवासे ओकोवर-इत्यत्र शिशुगृहे टूटीकाण्डी इत्यत्र वर्धमानायाः निराश्रितपुत्र्याः ‘राज्यस्य बालकाः’ ज्योति (काल्पनिकनाम) इत्यस्या: सम्भाव्यमातापितरौ दत्तकग्रहणं समर्पितवान् । सः ज्योत्या: भावी मातापितरौ अभिनन्दितवान्। अस्मिन् अवसरे मुख्यमन्त्री समाजस्य समृद्धजनानाम् आह्वानं कृतवान् यत् ते निराश्रितकिशोरबालानां पालनपोषणं कर्तुं अग्रे आगच्छन्तु येन एतेषां बालकानां कृते सुखदं उज्ज्वलं च भविष्यं सुनिश्चितं कर्तुं शक्यते।
मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः समाजस्य दुर्बलवर्गस्य, निर्धनवर्गस्य च हिताय निरन्तरं प्रयत्नाः कुर्वन् अस्ति। अनाथ-असहाय-वर्गस्य पीडां अवगत्य राज्यसर्वकारेण मुख्यमन्त्री सुखाश्रययोजना आरब्धा। अधुना राज्यसर्वकारः राज्यस्य ४००० निराश्रितबालानां माता पिता च अस्ति, ते च ‘राज्यस्य बालकाः’ इति दत्तकं गृहीतवन्तः।
निराश्रितबालानां निर्धनवर्गाणां च कृते कानूनानुसारं योजनां कृत्वा देशस्य प्रथमं राज्यं हिमाचलं जातम्। तेभ्यः एतावता प्रायः १८ कोटिरूप्यकाणां लाभः दत्तः अस्ति। राज्यसर्वकारस्य एतेषां प्रयत्नानाम् दिशि मुख्यमन्त्री सुखाश्रयकोषः अन्यः सार्थकः उपक्रमः अस्ति। अस्मिन् राज्यस्य जनानां बहुमूल्यं योगदानं प्राप्तम्, मन्त्रिमण्डलसहकारिणः, विधायकानां च योगदानम् अस्ति । अनाथबालानां जीवनं, शिक्षां, भविष्यं च सुरक्षितं कर्तुं एषः कोषः सहायकः अभवत् ।