हिमाचलप्रदेश: – “सर्वकार: ग्रामस्य द्वारे” योजना आरब्धा, मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः हमीरपुरस्य ग्रामाद् आरब्धवान् योजना
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः बुधवासरात् हिमाचलसर्वकारेण प्रारब्धस्य कार्यक्रमस्य सर्वकार: ग्रामस्य द्वारे कार्यक्रमस्य उद्घाटनार्थं नादौनविधानसभाक्षेत्रस्य गलोडं प्राप्तवान्। अत्र बढेरा पंचायते मुख्यमन्त्री पर्वतशैल्या मञ्चात् जनानां सह वार्तालापं कुर्वन् अवदत् यत् भवतां या: याः समस्याः सन्ति, भवन्तः लिखितरूपेण मां वदन्ति, प्रत्येकं समस्यायाः समाधानं भविष्यति।
न केवलम्, सः जनान् अवदत् यत् यदि केनचित् कारणेन तेषां शिमलानगरम् आगन्तुं भवति तर्हि शुक्रवासरे शिमलानगरम् आगन्तुं प्रयत्नः करणीयः, यतः सः शुक्रवासरं विशेषतया जनसामान्यस्य दिवसरूपेण स्थापितवान् अस्ति। बढेरा मन्दिरस्य सिद्धबाबा बालकनाथस्य प्राङ्गणे आयोजिते अस्मिन् कार्यक्रमे बहुसंख्याकाः जनाः उपस्थिताः आसन्। इतः मुख्यमन्त्री गोएस-पञ्चायतं प्राप्य सर्वकार: ग्रामस्य द्वारे एव कार्यक्रमस्य उद्घाटनं कृतवान्। विभिन्नैः सर्वकारीयविभागैः अपि पंचायते स्वकीयानां प्रदर्शनीनां आयोजनं कृतम्।