विश्वविद्यालय-अनुदान-आयोगस्य (UGC) निर्णय: – विद्यावारिधि – ( पीएचडी ) उपाधे: भविष्यति निरीक्षणम्
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
विश्वविद्यालय-अनुदान-आयोग: (UGC) उच्चशिक्षणसंस्थानेषु शिक्षकाणां नियुक्तिः विद्यावारिधि – ( पीएचडी ) उपाधे: प्रदाने च अनियमिततानां नियमितरूपेण निरीक्षणं करिष्यति। विश्वविद्यालय-अनुदान-आयोगेन एतदर्थं स्थायीसमिते: सङ्घटनस्य निर्णय: कृत:। अधुना देशे शिक्षकाणां नियुक्तिः विद्यावारिधि-उपाधे: प्रदानाय कस्यापि अनियमिततायां दृढ़ा कार्यविधि: क्रियते। विश्वविद्यालय-अनुदान-आयोगेन सङ्घटितया स्थायीसमित्या कानिचन् संस्थानानि चिन्हितानि सन्ति। एतेभ्य: संस्थानेभ्य: विश्वविद्यालय-अनुदान-आयोग: विद्यावारिधि-उपाधे: प्रदानस्य सर्वा: प्रक्रिया: ज्ञास्यति। विश्वविद्यालय-अनुदान-आयोग: गतवर्षेषु प्रदत्तानां उपाधिनां अवलोकनमपि करिष्यति। अस्मिन् अवलोकयिष्यते यत् शिक्षणसंस्थानै: विश्वविद्यालय-अनुदान-आयोगेन निर्धारितानां मानकानां अनुपालना सुनिश्चिता न वा।